०२ भरद्वाजाः

अथभरद्वाजाः तेचत्वारः भरद्वाजाः गर्गाः ऋक्षाः कपयश्चेति भरद्वाजाः क्षाम्यायणाः

देवाश्व इत्यादयः षष्ट्युत्तरशताधिकाभरद्वाजास्तेषामांगिरसबार्हस्पत्यभारद्वाजेतित्रयः गर्गाः

सांभरायणाः सखीनयः इत्यादयः पञ्चाशदधिकागर्गास्तेषामांगिरसबार्हस्पत्यभारद्वाजशैन्यगार्ग्येतिपञ्च

आंगिरसशैन्यगार्ग्येतित्रयोवा अन्त्ययोर्व्यत्ययोवा भारद्वाजगार्ग्यशैन्येतिवा

गर्गभेदानामांगिरसतैत्तिरिकापिभुवेति ऋक्षाः रौक्षायणाः कपिलः

इत्यादयोनवाधिका ऋक्षास्तेषामांगिरसबार्हस्पत्यभारद्वाजवान्दनमातवचसेतिपञ्च

आंगिरसवान्दनमातवचसेतित्रयोवा कपयःस्वस्तितरयःदण्डिनः इत्यादयःपञ्चविंशत्यधिकाः

कपयस्तेषामांगिरसामहय्यौरुक्षय्येतित्रयः आंगिरसामहीयवौरूक्षयसेत्याश्वलायनपाठः

आत्मभुवामांगिरसभारद्वाजबार्हस्पत्यवरात्मभुवेतिपञ्च अयंगणःक्वचित्

भरद्वाजानांसर्वेषांपरस्परमविवाहःसगोत्रत्वात् प्रायेणद्वित्रिप्रवरसाम्याच्च

ऋक्षान्तर्गतानांकपिलानांविश्वामित्रैरप्यविवाहः इति भारद्वाजांगिरसः ॥