४९ संक्षेपतोगोत्रप्रवरनिर्णयः

अथसंक्षेपतोगोत्रप्रवरनिर्णयः तत्रगोत्रलक्षणम् विश्वामित्रोजमदग्निर्भरद्वाजोऽथगौतमः ।

अत्रिर्वसिष्ठःकशप इत्येतेसप्त ऋषयः १ सप्तानामृषीणामागस्त्याष्टमानांयदपत्यंतद्गोत्रमित्याचक्षते

यद्यपिकेवलभार्गवेष्वार्ष्टिषेणादिषुकेवलाङ्गिरसेषुहारितादिषुचनैतल्लक्षणंभृग्वङ्गिरसोरष्ट ऋषिष्वनन्तर्गतत्वात्

तथाप्यत्रप्रवरैक्यादेवाविवाहः यद्यपिगोत्राणि अनन्तानिगोत्राणांतुसहस्त्राणिप्रयुतान्यर्बुदानिच ।

इत्युक्तेस्तथापि ऊनपञ्चाशदेवगोत्रभेदाःव्यावर्तकप्रवरभेदानाम्तावतामेवदर्शनात

प्रवरलक्षणंतुगोत्रवं शप्रवर्तक ऋषीणांव्यावर्तकारुषिविशेषाःप्रवरा इत्येवसंक्षेपतोज्ञेयम्

समानगोत्रत्वं समानप्रवरत्वं चपृथकपृथकविवाहप्रतिबन्धकम् तत्रप्रवरसाम्यंद्विविधम एकप्रवरसाम्यंद्वित्रिप्रवरसाम्यंच

तत्रभृग्वङ्गिरोगणेतरेषु एकप्रवरसाम्यमपिबिवाहप्रतिबन्धकं

केवलभृगुगणेषुकेवलाङ्गिरोगणेषुचैकप्रवरसाम्यंनविवाहबाधकम् पञ्चानांत्रिषुसामान्यादविवाहस्त्रिषुद्बयोः ।

भृग्वङ्गिरोगणेष्वेवं शेषेष्वेकोपिवारयेत् १

इत्यादिवचनात जामदग्न्यभृगुगणेषुगौतमांगिरसेषुभारद्वाजांनिरसेषुचेकप्रवरसाम्येपिक्वचितप्रवरसाम्याभावेपिचसगोत्रत्वादेवाविवाहः ।