अथसापत्नमातृकुलेसापिण्ड्यप्रकारंसमंतुराह पितृपत्न्यःसर्वामातरः तद्भांतरोमातुलाः
तद्भगिन्योमातृष्वसारः तद्दुहितरश्चभागिन्यः तदपत्यानि भागिनेयानि अन्यथासंकरकारिणःस्युरिति
अत्रलक्षणयासापत्नमातृकुले चतुःपुरुषसापिंड्यंविवाहनिषेधायविधीयत इति केचित
अपरेतुविवाहमात्रविषयत्वेमानाभावादाशौचादिविषयकत्वस्यापिसंभवात्
यावद्वाचनिकंप्रमाणमितिन्यायेनपरिगणितेष्वेवसापिण्ड्यैतिवदन्ति तथाचसुमन्तुवाक्ये
वाक्यभेदाश्रयणेनैवं वाक्यार्थाः पर्यवस्यन्ति पितृपत्न्यःसर्वामातर इति प्रथमवाक्येसापत्नमातरिमुख्यमातृवत्
संमाननंतद्वधेमातृवधप्रायश्चित्तंतद्गमनेमातृगमनप्रायश्चित्तादिकंचातिदिश्यते नात्रातिक्रान्तविषयेदशाहाशौचातिदेशः
त्रिरात्रविधिनाबाधात तद्भातरोमातुला इत्यत्रमातुलत्वप्रयुक्तमाशौचादिकंमातुलस्यस्वभगिनीसपत्न्याःकन्योद्वाहनिषेधश्च
अत्रमातुलत्वातिदेशेपिनतत्पुत्रादिषुमातुलपुत्रत्वाद्यतिदेशः तेनबन्धुत्रयत्वप्रयुक्तमाशौचंन्न
मातुलकन्यादौविवाहविधिनिषेधावपिन एवं मातुलकन्यादौ पितृर्भगिनीत्वातिदेशाभावेनतत्पुत्रं
प्रत्यपिपितृष्वसृत्वाद्यतिदेशोनभवति तद्भगिन्योमातृश्वसार इत्यत्राशौचंविवाहनिषेधश्च
मातृष्वसृपुत्रेबन्धुत्रयत्वं चन सापत्नमातृष्वसृकन्याविवाहानिषेधस्तुविरुद्धसंबन्धत्वादेववक्ष्यते
तदपत्यानिभगिन्य इत्यत्राशौचंसंमाननादिकंच नात्र विवाहप्रसक्तिः सगोत्रत्वात
अत्रसापत्नमातुलसापत्नश्चातृसापत्नमातृष्वसृसापत्नभगिनीनांस्वमातुलसोदरश्चात्राद्यनन्तरंतर्पणंमहालयाद आवुद्देशोप्यत एववचनादावश्यक इति भाति
तदपत्यानिभागिनेयानि इत्यत्राशौचं विवाहनिषेधश्च भागिनेयीत्वातिदेशेपितत्कन्यासुभागिनेयीकन्यात्वातिदेशोन
यावदुक्तं प्रमाणर्मितिन्यायादितिदिक् ॥
क्वचित्सापिण्ड्याभावेपिवचनादविवाहः अविरुद्धसंबन्धामुपयच्छेत दंपत्योर्मिथः पितृमातृसाम्येविरुद्धसंबन्धः
यथाभार्यास्वसुर्दुहितापितृव्यपत्नीस्वसाचेतिपरिशिष्टोक्तेः बौधायनः मातुःसपत्न्याभगिनींतत्सुतांचाचविवर्जयेत् ।
पितृव्यपत्नीभगिनीं तत्सुतांचाविवर्जयेत् । १ केचिज्ज्येष्ठभ्रातापितुःसम इत्युक्तेर्ज्येष्ठभ्रातृपत्न्याभगिनीमातृष्वसृतुल्यत्वान्न
विवाह्येत्याहुः यवीयसी स्वापेक्षयावयसावपुषाचन्यूनामुद्वहेत असमानार्षगोत्रजां आर्ष
प्रवरःस्वसमाने आर्षगोत्रेयस्यतज्जानभवतियातां असमानगोत्रामसमानप्रवरांचोद्वहेदित्यर्थः ।