४१ विवाहः

अथश्रीभगवत्पादौपुण्डरीकवरप्रदौ । श्रीगुरून्पितरौनत्वाविवाहंवक्तुमुद्यतः ॥१॥

उद्वेहेत्तद्विजोभार्यासवर्णालक्षणैर्युताम् । अव्यङ्गाङ्गीसौम्यनाम्नीमृद्वङ्गीचमनोहराम् २

भाविशुभाशुभज्ञानहेतुलक्षणविचारोऽष्टौमृत्पिंडान्‌कृत्वेत्यादिरूप आश्वलायनसूत्रे उक्तः

ज्योतिः शास्त्रोक्तराशिनक्षत्रादिघटितविचारोपिशुभादिज्ञानहेतुः सचसंक्षेपेणोच्यते

तत्रमेषादिराशिस्वामिनः भौमःशुक्रोबुधश्चन्द्रःसूर्यःसौम्योभृगुःकुजः । गुरुःशनैश्चरो मन्दःसुरेज्यो राशिपाःस्मृताः १