४० संक्षिप्त समावर्तनः

आतुरदशायांयथोक्तसमावर्तनासंभवेसंक्षेपतस्तत्कार्यम् तत्प्रयोगः संकल्प्य ब्रह्मचरिलिङ्गानि

मेखलादीनित्यक्त्वावपनंकृत्वातीर्थेस्नात्वावासःपरिधानाचमनतिलकधारणानिकृत्वाऽग्निप्रतिष्ठाप्यतत्रप्रजापतिंमनसाध्यायंस्तूष्णीसमिधमादध्यात्

अन्यदपि अविरोधितूश्णीमेवकर्तव्यमिति इति समावर्तनानुकल्पः ॥

ब्रह्मचर्यदशायांदशाहाशौचहेतुसपिण्डमरणेसमावर्तनोत्तरमुदकदानपूर्वकं

त्रिरात्रमतिक्रान्ताशौचंकार्यम् अनुपनीतसपिण्डेमातुलादौचमृतेऽतिक्रान्ताशौचंन

एवं जननाशौचेप्यतिक्रान्ताशौचंन ततश्चदशाहाशौचापादकसपिण्डमृतौसमावर्तनत्तोरंत्रिरात्रमध्येविवाहोनकार्यः कस्यचिन्मरणाभावेतुनविवाहेदोषः ॥

इत्थंव्रतान्तकर्माण्यनन्तोपाध्यायसूनुना । निर्णीयश्रीविठ्ठलांघ्‍र्‍योर्वाग्विलासःसमर्पित