अथ स्मृत्युक्तानि नित्यंयज्ञोपवीतद्वयंधारयिष्ये ।
सोदककमण्डलुंछत्रमुष्णीषंपादुके उपानहौसुवर्नकुण्डलेदर्भमुष्टिंचधारयिष्ये
कर्तनेनर्हस्वीकृतकेशश्मश्रुनखःस्याम् निमित्तं विनामुण्डनं न करिष्य इत्यर्थः
नसमावृत्तामुण्डेरन्नितिनिषेधात् नित्यमध्ययनरतःस्याम् निमित्तं विनामुण्डनं न करिष्य इत्यर्थः
नसमावृत्तामुण्डेरन्नितिनिषेधात् नित्यमध्ययनरतःस्याम स्वशरीरादुद्धृतंस्वनिर्माल्यंपुष्पचन्दनादिपुनर्नधारयिष्ये
शुक्लाम्बरधरःस्याम् सुगन्धीप्रियदर्शनः स्या विभवेसतिजीर्नवासामलवद्वसाश्चनस्याम्
रक्तंवासःशरीरपीडावहंवास्त्रंनधारयिष्ये गुरुंविनान्यैर्धृतंवस्त्रमलंकारंस्त्रजंचनधारयिष्ये
अशक्तस्तु अन्यद्धृतमपिवस्त्रदिप्रक्षाल्यधारयेत अन्यधृतोपवितमुपानहौचनधारये कन्थांनधारयिष्ये
नस्वरूपमुदकेनिरीक्षिष्ये नभार्यासाकमेकपात्रीककालेवाश्नीयाम् एतद्विवाहभिन्नविषयम्
शूद्रायधर्मज्ञानंनीतिज्ञानंव्रतकल्पंचनोपदिशामि एतत्साक्षादुपदेशपरम् कृत्वाब्राह्मणमग्रत इति ब्राह्मणद्वारकोपदेशेदोषाभावात
गृहमेधिशूद्रायस्वोच्छिष्टंनदास्ये शूद्रा अहोमशेशंनदास्ये उद्धृतोदकेनतिष्ठन्नाचमन्नकरिष्ये
जानुमात्रेतदधिकेवाजलेतिष्ठदाचमनेदोषाभावात् अशुचिना एकहस्तेनवा आनीतजलैर्नाचमिष्ये
पादेनपादधावनंकरिष्ये अकल्पांस्त्रियंनगमिष्यामि नप्रावृतमस्तकोहनिपर्यटिष्यामि
रात्रौमलमूत्रोत्सर्गेचप्रावृतशिराःस्याम् सोपानत्कोशनाभिवादननमस्कारान्नकरिश्ये
पादेनासनंनापकर्षिष्यामि एवमन्यान्यपिस्म्रुत्यक्तानिज्ञेयानि एतेषुव्रतेषुयानिकर्तुंशक्नुयात्तावन्त्येवसंकल्पयेत्
अत्रसंकल्पितव्रतोल्लंघनेमत्याकृतेत्र्यहमभोजनम् अमत्याकृते एकरात्रमभोजनंप्रायश्चित्तम् अशक्तस्त्रीनेकंवाविप्रंभोजयेत्
इति स्नातकव्रतानि