३७ प्रायश्चित्त प्रयोगः

अथमणिकुण्डलवस्त्रयुगच्छत्रोपानद्युगदण्डस्त्रगुन्मर्दनानुलेपाञ्जनोष्णीषाणि

आत्मने आचार्यायचसंपाद्यालाभे आचार्यायवैवासंपादयेत देशकालौसंकीर्त्यममब्रह्मचर्यनियमलोपजनितसंभावितदोषपरिहारेण

समावर्तनाधिकारसंपादनद्वारा श्रीपरमेश्वरीप्रीत्यर्थंमाज्यहोमपूर्वकंकृच्छ्रत्रयं

महानाम्न्यादिव्रतचतुष्टयलोपजनितप्रत्यवायपरिहारार्थं प्रतिसंस्कारमेकैकं कृच्छ्रच

गायत्र्याज्यहोमपूर्वकंतन्त्रेणाहमाचारिष्य इति संकल्प्याग्निप्रतिष्ठादिचक्षुषी आज्येनात्रप्रधानं

अग्निवायुंसूर्यप्रजापतिंचचतसृभिराज्याहुतिभिः अग्निंपृथिवीमहान्तमेकयाज्याहुत्या वायुमन्तरिक्षंमहान्तमेकया०

आदित्यंदिवं महान्तमेकया० चन्द्रमसंनक्षत्राणिदिशोमहान्तमेकया० अग्निंद्विः

विभावसुंशतक्रतुं अग्नि अग्नि अग्निवायुंसूर्यप्रजापतिंचेत्यष्टावेकैकयाज्याहुत्या शेषेणेत्यादि

आज्यभागान्तेव्यस्तसमस्तव्याह्रतिभिर्हुत्वा भूरग्नयेचपृथिव्यैचमहतेचस्वाहा ।

अग्नयेपृथिव्यैमहते इदमित्यादियथान्वाधानंत्यागः भुवोवायवेचान्तरिक्षायचमहतेचस्वाहा ।

सुवरादित्यायचदिवेचमहतेचस्वाहा । भूर्भुवःसुवश्चन्द्रमसेचनक्षत्रेभ्यश्चदिग्भ्यश्चमहते० ।

चन्द्रमसेनक्षत्रेभ्योदिग्भ्योमहत इ० ।

पाहिनो अग्न एनसे स्वाहा । पाहिनो विश्ववेदसेस्वाहा । यज्ञंपाहिविभावसोस्वाहा । सर्वपाहिशतक्रतोस्वाहा ।

पुनरूर्जानिवर्तस्वपुनरग्न इहायुषा । पुनर्नःपाह्यंहसः स्वाहा । सहरय्यानिवर्तस्वाग्नेपिन्वस्वधारया ।

विश्वप्सिनयाविश्वतस्परिस्वाहा । पुनर्व्यस्तसमस्तव्याह्रतिचतुष्टयम्‍

महानाम्न्यादिलोपेप्रत्येकमष्टोत्तरशतमष्टाविंशतिमष्टौवागायत्र्याज्याहुतीर्हुत्वा एकैकंकृच्छ्रंचरेत्

इति प्रायश्चित्त प्रयोगः ।