३० ब्रह्मचारिधर्माः

अथब्रह्मचारिधर्माः तत्रसंध्यात्रयमग्निपरिचरणंभैक्षंचनित्यम् तत्राग्निकार्यं प्रातःसायंच सायमेवसकृद्वा

तत्रपलाशखदिराश्वत्थशमीसमिधःश्रेष्ठास्तदलाभेऽर्कवेतसाम् भवच्छब्दपूर्विकाभिक्षाविप्राणाम् साचविप्रगृहेष्वेव

आपदिशूद्रगृहेषु आमान्नंगृह्णीयत हव्ये श्राद्धभिन्नकव्येचाभ्यार्थितोभुञ्जीत अस्यब्रह्मयज्ञोपिनित्यः

सचोपाकरणात्पूर्वगायत्र्या कार्यः गुरूच्छिष्टंमध्वादिकंनिषिद्धमपितदन्यापरिहार्यरोगनिवृत्त्यर्थंभक्षणीयम्

निषिद्धान्यत्‌गुरूच्छिष्टंत्वनौषधमपिभक्ष्यम् एवं ज्येष्ठभ्रातुःपितुश्चोच्छिष्टेषुज्ञेयम्

दिवास्वापोनेत्रेकज्जलमुपानच्छत्रंमञ्चादौशयनंचवर्ज्यम् ताम्बूलाभ्यञ्जनंचैवकांस्यपात्रेचभोजनम्

यतिश्चब्रह्मचारीचविधवाचविवर्जयेत् १ मधुसूतकान्नश्राद्धान्नादेर्निषेधाःपुनः

संस्कारप्रकरणोक्ता अनुसंधेयाःमेखलामाजिनंदण्डमुपवीतंचनित्यशः ।

कौपीनंकटिसूत्रंचब्रह्मचारीविधारयेत् १ मेखलोपवीतादौत्रुटितेजलेप्रास्यान्यद्धारयेत्

यज्ञोपवीतनाशेमनोज्योतिरित्यनेनव्रातपतिभिश्चेतिचतस्त्र आज्याहुतीर्जुहुयादित्युक्तम्

अस्यगुरुपरिचर्याप्रकारोऽन्यत्रज्ञेयः ॥