२८ प्रायश्चित्तार्थेव्रतबन्धेविशेषः

अथप्रायश्चित्तार्थेव्रतबन्धेविशेषः तत्रनिमित्तानन्तरमेवकरणे उदगयनपुण्यनक्षत्राद्युक्तकालोनापेक्ष्यते

अन्यथातुयथोक्तकालापेक्षा तत्रकर्तापितातदभावेपितृव्यादिःसपिण्डः तदभावेन्यः

कश्चित् यत्रपुनरुपनयनंप्रायश्चित्तत्वेनोक्तंतत्रपर्षदुपदिष्टविधिनातदेवकार्यम्

यत्रतुप्रायश्चित्तान्तरसहितंतत्रोक्तविधिनाप्रायश्चित्तंसंस्कार्येणकारयित्वाचार्येणतस्योपनयनंकार्यम्

यत्रजातकर्मादिसंस्कारसहितमुपनयनंविहितंतत्रजातादिचौलान्तसंस्कारान्कृत्वाकार्यम्

पुनरुपनयनेगायत्रीस्थानेतत्सवितुर्वृणीमह इत्यस्या उपदेशादाचार्येणास्या एव ऋचोद्वादशोत्तरसहस्त्रजपः

कृच्छ्रत्रयंचोपनेतृत्वाधिकारार्थंकार्यम् तत्रास्यकृतौर्ध्वदैहिकस्यपुनःसंस्कारद्वारा

श्रीपरमेश्वरप्रीत्यर्थंजातकर्माद्युपनयनान्तसंस्कारान्‌करिष्ये एवं निमित्तान्तरेपिसंकल्प ऊह्यः

सर्वसंस्कारोद्देशेनतन्त्रेणनान्दीश्राद्धादिश्मश्रुवपनानन्तरंचौलकेशवपनम्

मनुष्यादिक्षीरपारनादिनिमित्तान्तरेतुसंस्कार्योमुकदोषपरिहारार्थंपर्षदुपदिष्टममुकर्पायश्चित्तंकरिष्य इति संकल्प्यतत्कुर्यात्

आचार्यस्तु अस्यामुकदोषपरिहारार्थंपुनःसंस्कारसिद्धिद्वाराश्री० पुनरुपनयनंकरिष्य इति संकल्प्योपनयनमात्रंकुर्यात्

यत्रोपनयनमात्रोक्तिस्तत्रसंस्कार्यस्यनसंकल्पः किंत्वाचार्यस्यैवपुनरुपनयनंग्रामाद्बहिः प्राच्यामुदीच्यांवागत्वाकार्यम्

नान्दीश्राद्धान्तेमण्डपदेवतास्थापनम्

कुतमङ्गलस्नानंसंस्कार्यंभोजयित्वावपनपक्षेवपनस्नानेकारयित्वा अस्यप्रायश्चितार्थपुनरुपनयनहोमेदेवतापरिग्रहार्थमन्वाधानंकरिष्ये

अस्मिन्नन्वाहितेग्नावित्यादिनित्यवत् ब्रह्मचारिणःपुनरुपनयनेसमन्त्रकंवासोधारणंनित्यम् अन्यस्यवैकल्पिकम्

ब्रह्मसूत्रधारणादिसूर्येक्षणान्तंनित्यवत् ततोयुवासुवासा इत्येतन्मन्त्रकंप्रदक्षिणमावर्तनादिवासोबद्धाञ्जलिग्रहणान्ते

प्रणवव्याह्रतीनां ऋष्यादिस्मृत्वा तत्सवितुर्वृणीमह इत्यस्यश्यावाश्वःसवितानुष्टुपपुनरुपनयने उपदेशेविनियोगः

पादशोर्धर्चशःसर्वामितित्रिर्वाचयेत् ब्रह्मचारिणोमेखलादानादिनित्यवतब्रह्मचर्योपदेशान्तम् अन्यस्यमेखलाजिनदण्डधारणंपाक्षिकम्

ब्रह्मचर्योपदेशोदिवामास्वाप्सीरित्यन्तःवेदमधीष्वेत्यादिकंन ततःस्विष्टकृदादि मेधाजननपक्षे तत्पर्यन्ताग्निधारणम्

भिक्षापूर्वकानुप्रवचनीयःगायत्र्याःस्थानेतत्सवितुर्वृणीमह इति होमः त्रिरात्रव्रतान्तेयस्मिन्नाश्रमेपुनरुपनयनंतदाश्रमधर्मान्कुर्यात् ।

यत्रपुनरुपनयनान्तेपुनर्विवाहः कृतौर्ध्वदौहिकादेःश्रूयते तत्रमेखलादिधारणपूर्वकंकतिचिद्दिनानिब्रह्मचर्यकृत्वोचितकालेसमाप्य

पूर्वभार्ययान्ययावाविवाहंकुर्यात् इति ऋग्वेदिनांपुनःसंस्कारः ॥