२७ पुनरुपनयननिमित्तप्रकारः

तृतीयः पुनरुपनयननिमित्तप्रकारः एकंवेदमधीत्यवेदान्तराध्ययनचिकीर्षायांप्रतिवेदंपुनरुपनयनमित्येके

अन्यवेदिनामृग्वेदाध्ययनार्थमुपनयनमित्यपरे अन्येतु एकेनैवोपनयनेनवेदत्रयाध्ययनाधिकारः

अथर्ववेदाध्ययनार्थंद्वितीयमुपनयनमित्याहुः

तेन ऋगादिवेदत्रयाध्यायिनोमुण्डमाण्डुक्याद्याथर्वणोपनिषदोविनापुनःसंस्कारंपठन्तितेचिन्त्याः

युगपदनेकवेदारम्भे नोपनयनावृत्त्यपेक्षेतिसकृदुपनीत्यायुगपत्सकलवेदारम्भःसिद्ध्यतीतिपरे

तत्र एकवेदाध्ययनानन्तरंयद्वेदाध्ययनचिकीर्षाद्वेदेतिकर्तव्यताकंपुनरुपनयनम्

तत्रवपनंब्रह्मौदनंमेधाजननंदीक्षाचकृता परिदानान्ताक्रियाभवति

अनध्यायादिकेद्वितीयेपुनरुपनयननिमित्तेसर्वमाविकृतंयथोक्तकाले उपनयनम् ॥