अथद्वितीयं पुनरुपनयनम् प्रदोषेनिश्यनध्यायेमन्देकृष्णेगलग्रहे ।
अपराह्णेचोपनीतः पुनःसंस्कारमर्हति १ अत्रप्रदोषःप्रदोषदिनं
कृष्णःकृष्णपक्ष एकादश्यादिरन्त्यत्रिकरूपः अपराह्णश्चदिनतृतीयभागरूप इत्युक्तम्
अनध्याया अपिनित्या एवपौर्णिमाप्रतिपदादयःपुनरुपनयननिमित्तम् नतुनैमित्तिका अकालवृष्ट्यादिनिमित्तकत्रिरात्रादयः
नैमित्तिकेषुप्रातर्गर्जितनिमित्तानध्याय एवपुनःसंस्कारनिमित्तम् अत्रविस्तरःकौस्तुभे
अंसाभिमर्शनपूर्वकंबटोःसमीपमानयनंप्रधानकर्म तस्यविस्मरणेपुनरुपनयनम् एवं गायत्र्युपदेशविस्मरणेपि ॥