षंढान्धबधिरमूकपंगुकुब्जवामनादयःसंस्कार्याः मत्तोन्मत्तौनसंस्कार्यवित्येके
पातित्यंतुनास्तिकर्मानधिकारात् तदपत्यंसंस्कार्यम् ब्राह्मण्यांब्राह्मणादुत्पन्नोब्राह्मण एवेतिश्रुतेः
अन्येतुमत्तोन्मत्तावपिसंस्कार्यावित्याहुः अत्रहोममाचार्यः करोति
उपनयनंचाचार्यसमीपनयनमग्निसमीपनयनंवागायत्रीवाचनंवाविकलांगविषयेप्रधानम्
एतत्त्रयान्यतममात्रंविकलांगे संपाद्यम् अन्यदंगंयथासंभवं कार्यम् मूकबधिरादेःसावित्रीवाचनासंभवेस्पृष्ट्वासावित्रीजपः
कार्यः संस्कारमन्त्रावासःपरिधानमंत्राश्चाचार्येणवाच्याः केचित्तूष्णींवासःपरिधानादिकमित्याहुः
एवं विवाहेपि कन्यास्वीकरणादन्यत्सर्वं विप्रेणकारयेदित्यादिवचनात् इति विकलांगोपनयनादिविचारः ।