२० मेधाजननः

मेधाजननात्पूर्वकालिकाग्निकार्यंयावत् उपनयनाग्निनाशे

उपनयनाहुतिभिःकटिसूत्रधारणादिमणवकसंस्कारावक्षारणाग्निकार्यगायत्र्युपदेशरहिताभिः

पूर्वोत्तरतन्त्रसहिताभिर अग्निमुत्पाद्यत्तत्रानुप्रवचनीयपूर्वभाव्यग्निकार्यंकृत्वाऽनुप्रवचनीयहोमं

कृत्वामेधाजननात्प्राक्तनान्यग्निकार्याणिकृत्वा मेधाजननंकार्यमितिकौस्तुभे उपपादितनष्टस्योपनयनाग्नेः

पुनरुत्पत्तिहोमेविनियोग इति विशेष

इति चोक्तम् ममतु उपनयनाहुतिभिरग्निमुत्पाद्यतत्रमेधाजननपूर्वभाव्यग्निकार्याणिकृत्वामेघाजननंकार्यम्

अनुप्रवचनपूर्वभाव्यग्निकार्यमनुप्रवचनीयहोमश्चनकार्य इति भाति

गायत्र्युपदेशानुप्रवचनीयमेधाजननानांत्रयाणांसमप्रधानभावेनाध्ययनांगत्वादग्नेस्त्रितयांगत्वातकौस्तुभोक्तरीत्यागायत्र्युपदेशतत्पूर्वाः

अग्निकार्यावृत्त्यभाववदनुप्रवचनीयतत्पूर्वाग्निकार्ययोरावृत्त्यभावौचित्यात् नह्यग्निष्टोमाङ्गपशुत्रयस्याङ्गेयूपेपशुद्धयानुष्ठानानन्तरंनष्टे

तृतीयपश्वर्थंयूपोत्पादनेद्वितीयपश्वनुष्ठानमप्यावर्तते अत्रसदसत्सद्भिर्विचार्यानुष्ठेयम् सायंसंध्याग्निकार्येकृतेनुप्रवचनीयहोमंब्रह्मचारीकुर्यात्

बटोरशक्तौचरुश्रपणान्तमन्यःकुर्यात् होममात्रंबटुःकुर्यात हुतचरुशेषेणत्र्यवरब्राह्मणभोजनम् ।