१६ ग्रहयज्ञः

विवाहोपनयनादिष्वाभ्युदयकर्मस्वादोग्रहयज्ञंकुर्यातश्राद्धातिरिक्तेश्वनाभ्युदयिकेष्वपिशान्त्यादिकर्मसुग्रहानुक ऊल्यकामोग्रहयज्ञकुर्यात

अरिष्टनिरासार्थमुत्पातेषुशान्तस्थानेष्वप्रधानोपिग्रहमख उक्तः प्रधानकर्मणःपूर्वमव्यवहितेवाकालेकुर्यात् व्यवहितपक्षे

सप्तदिनाधिकव्यबधानंनकार्यम् प्रतिग्रहंदशावरप्रधानाहुबिसंख्यायमेकपव ऋत्विक्‌ दशाधिकपञ्चाशत्पर्यन्तसंख्यायाचत्वार ऋत्विजः

ततः ऊर्ध्वशतावरहोमेऽष्टौ ऋत्विजोनवम आचार्यः तत्राचार्य आचार्यकर्मकृत्वा आदित्यायजुहुयात् अष्टभ्यःसोमादिभ्योष्टौ ऋत्विजोजुहुयुः

ऋत्विक्‌चतुष्टयपक्षेद्वाभ्यांग्रहाभ्यां एकौकोजुहुयात् आचार्योर्काय

ताम्रादिमयीषुप्रतिमासुसर्वासुसौवर्णीषुवाफलेष्वक्षतपुञ्जेषुवा आदित्यादिपूजनम्

होमसंख्यानुसारेणकुण्डस्यस्थण्डिलस्यवाग्रहवीश्चहस्तादिमानम्

तत्र प्रधानाङ्गाहुतीनांपञ्चाशदवरसंख्यत्वेरत्निमितंकुण्डम् शतावरत्वे अरत्निमित्तम्सहस्त्रावरत्वेहस्तमितम् अयुतादिहोमेहस्तद्वयम्

लक्षहोमेचतुर्हस्तम् तत्र कृतमुष्टिः करोरत्निः मुक्तकनिष्ठिकः करः अरत्निः चतुर्विंशत्यंगुलोहस्तः

कुण्डेमेखलायोनिनाभिखातादिमानंग्रन्थान्तरेभ्योज्ञेयम् इदंकुण्डादिमानसर्वत्रज्ञेयम् समिच्चर्वाज्यंद्रव्यम

अर्कःपलाशःखदिरश्चापामार्गोथपिप्पलः ।

औदुम्बरःशमीदूर्वाकुशोऽर्कादेःक्रमात्समित १ केचित्तिलानपि आहुः

अर्कादिप्रधानहोमसंख्यादशांशेनाधिदेवताप्रत्यधिदेवतांनाहोमः अधिदेवताद्यर्थसंख्ययाक्रतुसंरक्षकक्रतुसाद्गुण्यदेवतानां

शान्त्यंगभुतेग्रहयज्ञेबलिदानंकुर्वन्ति अन्यर ग्रहमखे बलिदानं न कुर्वन्ति प्रधानभूताया एकाहुतेरेकविप्रभोजनंश्रेष्ठम्

शताहुतेरेकविप्रभोजनंमध्यमम् सहस्त्राहुतेरेकविप्रभोजनंघन्यम् सुविस्तरप्रयोगादिकमन्यत्र इति ग्रहयज्ञः ॥