०९ लग्नेग्रहबलम्

व्रतेग्राह्याद्वादशाष्टषट्‌वर्ज्याःशुभखेचराः । खलास्त्र्यायारिगाश्चन्द्रः शुक्लेगोकर्कगस्तनौ १ क्वचित्सूर्यस्तनौश्रेष्ठोऽष्टमेवर्ज्योऽखिलोग्रहः ।

लग्नेशःशुक्रचन्द्रौचषष्ठेवर्ज्याः सितोन्त्यगः २ लग्नेचन्द्रखलाश्चैवेन्दुर्वर्ज्योद्वादशाष्टमे ।

पञ्चेष्टग्रहहीनंचलग्नंसर्वत्र वर्जयेत् ३ तुलामिथुनकन्याख्याधनुर्वृषझषाव्हयाः ।

नवमांशाह शुभाःप्रोक्ताःकर्काशंवर्जयेद्‌व्रत ४ षड्‌वर्गशुद्ध्यादिकमिष्टकालसाधनादिविचारश्च ज्योतिर्ग्रन्थेभ्योज्ञातव्यः

मातरिरजस्वलायांमातुलज्येष्ठभात्रादीनांपित्रासानिध्यात् कर्तृणांपत्न्याम्रजस्वलायांचमौञ्जीविवाहादिनकार्यम्

नान्दीश्राद्धोत्तरंमातृरजासिभ्रात्रादिकर्त्रन्तरसत्त्वेपिसन्निहितमुहूर्तान्तरालाभे शान्तिंकृत्वाकार्यम् अन्यथामुहूर्तान्तरे एव

नान्दीश्राद्धोत्तरंमातुलादिकर्तृणांपत्नीरजोदोशे आरब्धत्वाच्छान्तिविनैवकार्यम् मौञ्जीविवाहोत्तरंमण्डपोद्वासनात्प्राक्‌मातृरजोदोषेपिशान्तिः

कार्यामंगलस्यासमाप्तत्वादितिमुहूर्तचिन्तामणिटीकायाम्

प्रारम्भात्प्रागपिरजोदोषेमुहूर्तान्तरालाभेशान्तिंकृत्वाऽतिसंकटेव्रतबन्धादिकंकार्यमितिकौस्तुभे शान्तिप्रकारश्चममामुकंमङ्गले

संस्कार्यजननीरजोदोषजनिताशुभफलनिरासार्थंशुभफलावाप्त्यर्थंश्रीपूजनादिशान्तिकरिष्ये

इति संकल्प्यमाषसुवर्णनिर्मितांलक्ष्मी श्रीसूक्तेनषोडशोपचारै

संपूज्यस्वगृह्योक्तविधिनाश्रीसूक्तेनप्रत्यूचंपायसंहुत्वाकलशोदकेनाभिषिच्यविष्णुंकृत्वाकर्मेश्वरार्पणकुर्यादिति

प्रारम्भोत्तरं सूतकौप्राप्तो एकोदरयोःसमानसंस्कारेप्रेतकर्मासमाप्तौचचौलप्रकरणे उक्तम‌विशेषस्तुवक्ष्यते ॥