०१ विद्यारम्भः

पञ्चमेवर्षे अक्षरलेखनारम्भ उत्तरायणेकार्यः अत्र कुम्भस्थःसूर्यो वर्ज्यः शुक्लपक्षः शुभः प्रोक्तः कृष्णश्चान्त्यत्रिकविना ।

द्वितीयातृतीयापञ्चमीदशम्येकादशीद्वादशीत्रयोदश्यःश्रेष्ठाः अश्विनीमृगार्द्रापुनर्वसुपुष्यहस्तचित्रास्वात्यनुराधाश्रवणधनिष्ठाशततारकारेवत्यो

भौमशनिभिन्नवाराश्चशुभाः विघ्नेशंलक्ष्मीनारायणौसरस्वतीस्ववेदंसूत्रकारंच पूजयित्वागुरुंब्राह्मणान्धात्रीचसंपूज्यनत्वासर्वांस्त्रिः

प्रदक्षिणीकृत्यप्रणवपूर्वकमक्षरमारभेत ततोगुरुंनत्वादेवताविसर्जयेत् ततोत्रभुवनातः

सर्ववाङ्मयरूपेणागच्छागच्छेतिसरस्वत्यावाहनमन्त्रःप्रणवेनषोडशोपचारार्पणम् ॥