७३ वर्धापनविधिः

सचवर्षपर्यन्तंप्रतिमांसजन्मतिथौकार्याः वर्षोत्तरे प्रत्यब्दंजन्मतिथौकार्यः तिथिद्वैधेयत्रजन्मर्क्षयोगःसाग्राह्या

दिनद्वयेजन्मनक्षत्रयोगसत्त्वासत्त्वयोरदयिकीद्विमुहूर्ताधिकाग्राह्या द्विमुहूर्तन्यूनत्वेपुर्वा जन्ममासस्य

अधिमासत्वेशुद्धमासेप्रत्याब्धिकवर्धापनविधिनत्वधिके । अथसंक्षेपतःप्रयोगः आयुरभिवृद्ध्यर्थं

वर्षवृद्धिकर्मकरिष्य इति संकल्प्यतिलोद्वर्तनपूर्वकंतिलोदकेनस्नात्वाकृतातिलकादिविधिर्गुरुंसंपूज्याक्षतपुञ्जेषुदेवताः

पूजयेत् तत्रादौकुलदेवतायैनम

इति कुलदेवतामावाह्यजन्मनक्षत्रंपितरौप्रजापतिबानुंविघ्नेशंमार्कण्डेयंव्यासंजामदग्न्यंरामं

अश्वत्थामानंकृपंबलिप्रल्हादंहनुमन्तंबिभीषणंषष्ठीचनाम्नैवावाह्यपूजयेत

षष्ठ्यैदधिभक्तनैवेद्यः पूजान्ते प्रार्थना चिरंजीवीयथात्वं भोभविविष्यामितथामुने ।

रूपवान्वित्तवांश्चैवश्रियायुक्तश्चसर्वदा १ मार्कणेयनमस्तेस्तुसप्तकल्पांन्तजीवन ।

आयुरारोग्यसिद्ध्यर्थंप्रसीदभगवनमने २ चिरंजीवीयथात्वं तुमुनीनांप्रबरोद्विज ।

कुरुष्वमुनिशार्दूलतथामांचिरजीविनम् २ मार्कण्डेयमहाभागसप्तकल्पान्तजीवन ।

आयुरारोग्यसिद्ध्यर्थमस्माकंवरदोभव ४ अथषष्ठीप्रार्थना जयदेविजगन्मातर्जगदानन्दकारिणी ।

प्रसीदममकल्याणिनमस्तेषष्ठिदेवते १ त्रैलोक्येयानिभूतानिस्थावराणिचराणिच ।

ब्रह्मविष्णुशिवैः सार्धरक्षांकुर्वन्तुतानिमे २ ततस्तिलगुडमिश्रंपयः पिबेत् तत्रमन्त्रः

सतिलगुडसंमिश्रमञ्जल्यर्धमितंपयः मार्कण्डेयाद्वरंलब्ध्वापिबाम्यायुर्विवृद्धये १

क्वचित्पूजितषोडशदेवताभ्योनाम्नाप्रत्येकमष्टाविंशतिसंख्यातिलतथा आमिषंकलहहिंसावर्षवृद्धौविवर्जयेत् १

मृतेजन्मनिसंक्रान्तौश्राद्धेजन्मदिनेतथा । अस्पृश्यस्पर्शने चैवनस्नायादुष्णवारिणा २ ॥