६९ दुग्धपानजलपूजनानि

आन्दोलाशयने पुंसोद्वादशो दिवसः शुभः । त्रयोदशस्तुकन्यायाननक्षत्रविचारणा १

अन्यस्मिन्दिवसे चेत्स्याच्छुभकालंविचारयेत् । उत्तररात्रयरोहिणीहस्ताश्विनीपुष्यरेवत्यनुराधा

मृगचित्रापुनर्वसुश्रवणस्वस्तिनक्षत्रेषुशुभवारेरिक्तातिरिक्ततिथौचन्द्रताराबले कुलयोषिद्भिरान्दोलाशयनंकार्यम्

एकत्रिंशदिनेद्वितीयजन्मर्क्षेवादोलारोहोक्तनक्षत्रैर्वापूर्वाह्णमध्याह्नयोःकुलदेवताविप्रयोःपूजांविधायशङ्खेगोदुग्धंपाययेत्

इति दुग्धपानम् सूत्यामासोत्तरंबुधसोमगुरुवारेषुरिक्तान्यतिथौश्रवणपुष्यपुनर्वसुमृगहस्तमूलानुराधानक्षत्रेषुजलस्थानंगत्वाजलपूजाकार्या

अत्रगुरुशुक्रास्तचैत्रपौषमासाधिमासावर्ज्याः इति जलपूजनम् ॥