६१ यमलजननशान्तिः

तत्रश्रौताग्निमतःसोग्नयेमरुत्वतेत्रयोदशकपालंपुरोडाशंनिर्वपेदिति ऋग्वेदब्राह्मणाक्तेष्टिःयद्वा

आश्वलायनसूत्रोक्तःकेवलमारुतयागः गृह्याग्नमता आश्वलायनस्यगृह्याग्नौमारुतश्चरुः अथयस्यवधूर्गौर्वाजनयेच्चेद्यमौततः ।

समरुद्‌भ्यश्चरुंकुर्यात्पुर्णाहुतिमथापिवा १ इति कारिकोक्तेः गृह्याग्निशून्यबृहवृचः कात्यायनोक्तशान्तिलौकिकाग्नौकुर्यात्

ममभार्यायमलजननसूचितसर्वारिष्टपरिहारद्वाराश्रीपरमेश्वरप्रीत्यर्थंमारुतेष्ट्यायक्ष्य इति संकल्पः निरग्निस्तु

सग्रहमखांकात्यायनोक्तांशातिंकरिष्ये इति संकल्प्य स्वस्तिवाचनादि आचार्यवरशान्तंकुर्यात्

अष्टदिक्षु अष्टकलशान्‌विधिनासंस्थाप्य उदकपूरणादिसर्वौषधिप्रक्षेपान्तेवरुणंपूजयेत् अष्टकलशोदकैर्दम्पत्योरभिषेकः

आपोहिष्ठेति तिसृबिकयान इति द्वे आनः

स्तुत इति पञ्चेतिसप्तभिरैन्द्रीभिर्मोषुवरुण इति पञ्चाबिरिदमापहत्येकया अपन इत्यष्टाभिराग्नेयीभि ऋग्भिःकार्यः

अभिषिक्तौदम्पतीधृतश्वेतवस्त्रचन्दनौ उदङमुखौतिष्ठेताम्

प्राङ्‍मुख आचार्योग्निग्रहस्थापनान्ते अपिस्तिसृभिराज्याहुतिभिरिन्द्र्म्सप्तभिर्वरुणंपञ्चभिरप एकयाग्निमष्टाभिराज्याहुतिभिः

पूर्वत्राभिषेकार्थमुक्तैश्चतुर्विंशतिमन्त्रैरग्निंसोमंपवमानंपावकंमारुतं यमं अन्तकंमृत्युंचैकैकयाचर्वाहुत्यानाममन्त्रै

शेषेणेत्यादि अन्वादध्यात् षट्‌त्रिंशद्वारंतूष्णींनिर्वापप्रोक्षणे अन्तेग्रहकलशोदकादिनाभिषेकः

दासीमहिषीवडवागोहस्तिनीनांयमलजननेपीयंशान्तिःकार्या इयं शान्तिर्ग्रहोत्पातेषु

उलूककपोतगृध्रश्येनानांगृहप्रवेशेस्तम्भप्ररोहेवल्मीकप्ररोहेमधुजनने आसनशयनयानभङ्गेपल्लीपतनेसरठारोहणे

छत्रध्वजविनाशेषु अन्येषूत्पातेषुचकार्योतिचकात्यायनमतम् साचसाग्निकैःकात्यायनैःस्वगृह्याग्नौकार्या

निरग्निकैस्तैरन्यैश्चलौकिकाग्नौ इति यमलजननादिशान्तिः ॥