५३ संक्रान्तिशान्तिः

कुमारजन्मकालेतुव्यतीपातश्च वैधृति । संक्रमश्चरवेस्तत्रजातोदारिद्र्यकारकः १

अश्रियंमृत्युमाप्नोतिनात्र कार्याविचारणा । स्त्रीणांचशोकदुःखंचसर्वनाशकरोभवेत् २ गोमुखप्रसवं कुर्याच्छान्तिचसनदग्रहाम् ।

उक्तकालेसंकल्पादिकंकृत्वापञ्चद्रोणपरिमितव्रीहिराशिंकृत्वातदुपरिसार्धद्रोणद्वयमिततण्डुलराशिंत

दुपरिसपादद्रोणपरिमिततिलराशिंचकृत्वातिलराशौविधिनास्थापित

कुम्भेसौवर्णप्रतिमायांसूर्यमावाह्यतद्दक्षिणोत्तरयोरग्निरुद्राद आवाह्यतिस्त्रोदेवताः

व्यतीपातशान्तौसंक्रातिशान्तौचपूजयेत् व्यतीपातसंक्राम्न्त्योर्जननेव्यतीपातसंक्रांतिशान्तितन्त्रेण

संकल्प्यैकैवशान्तिः कार्या अत्रपूजाहोमादेःप्रसङ्गसिद्धिःद्विगुणोवांप्रधानहोम इति भाति

गृहपीठदेवतान्वाधानान्तसुर्य उत्सूर्योबृहदितिमन्त्रेणसमिदाज्यचर्वाहुतिभिः प्रतिद्रव्यमष्टोत्तरशतसंख्याभिः

अग्निरुद्रंचतैरेवद्रव्यैः प्रत्येकमष्टावं शतिसंख्याहुतिभिरग्निंदूतमितित्र्यंम्बकमितिमन्त्राभ्यांमृत्युंजयमष्टोत्तरशततिलाहुतिभिः

शेषेणत्यादि अभिषेकान्तेगोवस्त्रस्वर्णादिदत्त्वाशतंब्राह्मणान्भोजयेत् इति व्यतीपातसंक्रान्तिशान्तिः ॥