चित्राद्येर्धेपुष्यमध्येद्विपादेपूर्वाषाढाधिष्ण्यपादेतृतीये ।
जातःपुत्रश्चोत्तराद्येविश्वेतिपितुर्भ्रातुःस्वस्यचापिप्रणाशम् १ उत्तराफल्गुन्याद्यपादे इत्यर्थः अत्रेत्थंभाति
चित्रापूर्वार्धेजातस्यगोप्रसवं कृत्वानक्षत्राधिप्रतिमांसंपूज्य अजादानंकार्यम् एवं पुष्यद्वितीयतृतीयपादयोर्जनने
गोप्रसवनक्षत्राधिपपूजागोदानानिकार्यणि उत्तराफल्गुनीप्रथमपादेजनने नक्षत्राधिपपूजां तिलपात्रदानंच
कुर्यात् एवं पूर्वाषाढातृतीयपादेजननेनक्षत्रेशपूजाकाञ्चनदानम् मघाप्रथमपादजननेमूलवत्फलम्
तत्रगोप्रसवनक्षत्रेशपूजनग्रहमखाःकार्याः मघाया आद्यघटीद्वयजनने नक्षत्रगण्डातरशान्तिरपि
रेवत्यन्त्यघटिद्वयेऽश्विन्याद्यद्वयेजननेनक्षत्रगण्डान्तशान्तिगोप्रसवग्रहमखाःकार्यः
रेवत्येश्विन्योरितरभागेषुमघान्तिमपादत्रयेचदोषविशेषानुक्तेर्नशान्त्यादिकम्
एवं विशाखाचतुर्थपादजननेशालकदेवरनाशादिदुष्टफलोक्तेर्ग्रहमखः कार्यः यत्रकाले
दुष्टफलमात्रमुक्तंशान्तिर्नोक्तातत्रग्रहमख इति कमलाकरोक्तेः एवमितरत्राप्यूहम् इति नक्षत्रशान्तयः