४९ आश्लेषाशान्तिः

तत्राश्लेषाफलम् आश्लेषायाः क्रमेणपञ्चसप्तद्वित्रिचतुरष्टैकादशषण्नवपश्चेतिदशधाविभक्तनाडीषु

क्रमेण राज्यंपितृनाशो मातृनाशः कामभोगः पितृभक्तिर्बलंहिंसकत्वं त्यागोभोगोधनमितिफलानि

अथ पादविभागेनफलम् तत्राद्यपादः शुभः द्वितीये पादेधनस्यनाशः तृतीयेमातुः

चतुर्थेपितु आश्लेषान्त्यपादत्रयजाताकन्याश्वश्रूहन्ति एवं वरोपि अन्त्यपादत्रयजःस्वश्चश्रूंहन्ति

आश्लेषासर्वपादेषु शान्तिःकार्याप्रयत्नतः । जातस्यद्वा दशाहेतुशान्तिकर्मसमाचरेत् १ असंभवेतुजन्मर्क्षे अन्वास्मिन्वाशुभेदिने ।

अथोक्तकालेगोमुखप्रसवं कृत्वा अस्यशिशोराश्लेषाजननसूचितसर्वारिष्टपरिहारेत्यादि

संकल्पकृत्वामूलहान्तिवत्कुम्भद्वयेरुद्रवरुणौद्वौसंपूज्यचतुर्विंशतिदलपद्मस्थकुम्भेप्रतिमायामाश्लेषाधिपतीन्‌

सर्पानावाह्यताद्दक्षिणेपुष्यदेवतां बृहस्पतिमुत्तरतोमघादेवतांपितृश्चावाह्यदलेषुपूर्वदलमारभ्यप्रादक्षिण्येन

पूर्वाधिपतिभगादिपुनर्वसुदेवतादितिपर्यन्तचतुर्विंशतिदेवतावाहनादिकुर्यात् कौस्तुभेतु तैत्तिरीयकमंत्रैः

पुष्यमघापूर्वादिनक्षत्राणामेवावाहनमुक्तंनतुनक्षत्रदेवतानाम् ततोलोकपालानावाह्यावाहितसर्वदेवताः

संपूज्याग्निग्रहांश्चप्रतिष्ठाप्यान्वादध्यात् आदित्यादिग्रहाद्युद्देशान्ते

प्रधानदेवताःसर्पाप्रतिद्रव्यमष्टोत्तरशतसंख्यमष्टाविंशतिसंख्यंवाघृतमिश्रपायससमिदाज्यचर्वाहूतिभिः

बृहस्पतिंपितृश्चाष्टाविंशतिसंख्यमष्टसंख्यंवातैरेव द्रव्यैर्भगादिचतुर्विंशतिदेवताः अष्टाष्टपायसाहुतिभिः

रक्षोहणमित्यादिशेषदेवतानिर्देशोमूलशान्तिवत् तद्वदेवपायसकृसरचरूनांश्रपणंहविस्त्यागश्चकार्यः

कौस्तुभोक्तप्रधानदेवतामन्त्रैस्तत्तद्धोमः शेषंमूलशान्तिवत् ॥