ततःशान्तिः तदन्यमूलोत्पत्तौद्वादशाहे अव्यवहितागामिमूलयुतेशुभदिनेवागोप्रसवशान्तिंकृत्वास्याशिशोर्मूलः
प्रथमचरणोत्पत्तिसूचितारिष्टनिरासार्थंसग्रहमखांशांतिकरिष्य इति संकल्पयेत द्वितीयादिपादोत्पत्तौसंकल्पेतथोहः
ब्रह्मसदस्यौकृताकृतौ ऋत्विजोष्टौचत्वारोवा मध्यकलशेस्वर्णप्रतिमायांरुद्रावाहनादि
तस्यचतुर्दिक्षुकुम्भचतुष्टयेऽक्षतपुञ्जेषुवरुणपूजा यद्वा मध्येकुम्भेप्रतिमायांरुद्रदुत्तरकुम्भेवरुणः
पूज्य इति कुम्भद्वयम रुद्रकुम्भोत्तरतः कुम्भेप्रतिमासु नि ऋतिमिन्द्रमपश्चावाह्यापद्मस्यचतुर्विंशतिदलेषु उत्तराषाढाद्यनुराधान्तचतुर्विंशति
नक्षत्रानाविश्वेदेवादिचतुर्विम्शतिदेवास्तण्डुलपुञ्जाद्विष्वावाह्यदिक्षुलोकपालाम्श्चावाह्यपूजयेत्
अग्निसहस्थापनाद्यन्तेऽन्वाधानेऽर्कादिग्रहान्समिच्चर्वाज्याहुतिभिः
नि ऋतिप्रतिद्रव्यमष्टोत्तरशतसंख्याभिर्घृतमिश्रपायससमिदाज्यचर्वाहुतिभिः
यद्वा पायसेनाष्टोत्तरशतसंख्ययासमिदाज्यंचरुभिरष्टाविंशतिसंख्यया इन्द्रमपश्चप्रतिद्रव्यमष्टा
विंशतिसंख्यपायसमिदाज्यचर्वाहुतिभिर्विश्वदेवादिचतुर्विंशतिदेवता अष्टाष्टपायसाहुतिभिः
रक्षोहणमग्निकृणुष्वपाजेतिपञ्चदश ऋग्भिःप्रत्यचमष्टाष्टसंख्यक्रुसराहुतिभिः १२०
सवितारंदुर्गात्र्यंबकंकवीनदुर्गां वास्तोष्पति अग्निंक्षेत्रपालंमित्रावरुणावग्निंचाष्टाष्टकृसराहुतिभिः श्रियं
हिरण्यवर्णामितिपञ्चदश ऋग्भिःप्रत्यृचमष्टाष्टसमिदाज्यचर्वाहुतिभिः सोमं त्रयोदशपायसाहुतिभिः
रुद्रंस्वराजंचतुर्गृहीताज्येनाग्निवायुसूर्यंप्रजापतिंचाज्येशेषेणस्विष्टकृतमित्यादि
कवीनित्यत्र ऋत्विकस्तुतिमित्युद्देशोमयूखादौ शूर्पत्रये निर्वापः तत्रप्रथमेशूर्पेपायसार्थं
तूष्णीद्वादशमुष्टीन्नि ऋतिमिन्द्रमपश्चांद्दिश्यनिरूप्य द्वितीयेचर्वर्थं तदेवत्रयमुद्दिश्यद्वा दशमुष्टिन्
पुनःप्रथमेषण्णवतिमुष्टीन् पायसार्थंतृतीयेशूर्पेकृसरार्थंचतुश्चत्वारिंशन्मुष्टीन् द्वितीयेपुनश्चतुरोमुष्टीन्प्रथमेपुनः
सोमार्थंचतुर्मुष्टीन्नीरुप्यततःशूर्पत्रये आहुतिपर्याप्ततण्डुलान्गृहीत्वानिर्वापसंख्ययाप्रोक्ष्यपात्रत्रयेहविस्त्रयंश्रपयेत्
तिलमिश्रतण्डुलपाकेनकृसरोभवति ग्रहार्थंगृहसिद्धान्नंग्राह्यम् सर्वग्रन्थेषुनि ऋत्याद्यर्थंनिर्वापादिक्रमेणश्रपणमेवोक्तम्
अतोगृहसिद्धान्न एवतिलदुग्धमिश्रणेनकृसरादिसंपादनं प्रमादालस्यादिकृतकर्मभ्रंश एव ततोहोमकालेयजमानस्त्यागंकुर्यात्
तत्र एतावत्संख्याहुतिपर्याप्तंसमिदाज्यचरुद्रव्यमादित्यादिनवग्रहेभ्योनमम एवमधिदेवतादिभ्यः
ततोष्टोत्तरशतसंख्याहुनिपर्याप्तंघृतमिश्रपायसं अष्टोत्तरशताहुतीनामष्टाविंशत्याहुतीनां
वापर्याप्तंसमिदाज्यचर्वात्मकद्रव्यत्रयमिदंनि ऋतयेनमम
अष्टविंशत्याहुतिपर्याप्तंपायससमिच्चर्वाज्यमिन्द्रायनमम एवमद्भयः अष्टाष्टहुतिपर्याप्तंपायसंविश्वेभ्योदेवेभ्यो०
१ विष्णवे २ वसुभ्यो ३ वरुणाय ४ अजैकपदे ५ अहयेबुध्नाय ६ पूष्णे ७ अविभ्यां ८ यमाय ९ अग्नये १० प्रजापतये
११ सोमाय १२ रुद्राय १३ अदित्यै १४ बृहस्पतये १५ सर्पेभ्यः १६ पितृभ्यः १७ भगाय १८ अर्यम्णे १९ सवित्रे २० स्त्वष्ट्रे
२१ वायवे २२ इन्द्राग्निभ्यां २३ मित्राय २४ नमम विंशत्यधिकशताहुतिपर्याप्तंकृसरंरक्षोघ्नेऽग्नयेनमम
अष्टाष्टाहुतिपर्याप्तंकृसरंसवित्रेदुर्गायैत्र्यम्बकायकविभ्योदुर्गायैवास्तोष्पतयेऽग्नयेक्षेत्रपालायमित्रावरुणाभ्यामग्नयेचनमम
प्रतिद्रव्यंविंशत्यधिकशताहुतिपर्याप्त्निसमिच्चर्वाज्यानिश्रियैनमम त्रयोदशाहुतिपर्याप्तंपायसंसोमायचतुर्गृहीताज्यंरुद्रायस्वराजे
एकैकाहुतिपर्याप्तमाज्यं अग्नयेवायवे सूर्यायप्रजापतयेचनमम एवं सविस्तरंतत्तद्द्रव्यसंख्यादेवतोच्चारेणत्यागःसर्वत्रज्ञेयः केचित्तु
इदमुपकत्पितमन्वाधानोक्तद्रव्यजातमन्वाधानोक्ताहुतिसंख्यापर्याप्तमन्वाधानोक्ताभ्योयक्ष्यमाणाभ्योदेवताभ्योनममेतिसंक्षेपेणगंकुर्वन्ति
तत्यातोग्रहमन्त्रैनि ऋत्यादिमन्त्रैश्चयथायथंहोमान्ते
ग्रहपूजास्विष्टकृवाहुतिबलिदानपूर्णाहुतिपूर्णपात्रविमोकादिवह्निपूजान्तेयजमानाद्यभिषेके कृते
घृतशुक्लवस्त्रगन्धोयजमानोमानस्तोकेतिविभूतिधृत्वा मुख्यदेवतापूजनविसर्जनश्रेयोग्रहण
दक्षिनादानानिकुर्यात् शतंतदर्धदशवाब्राह्मणान्भोजयेदितिसंक्षेपः ॥