४५ दर्शशान्तिः

अथदर्शशान्तिः । अथातोदर्शजातानांमातापित्रोर्दरिद्रता ।

तद्दोषपरिहारार्थंशान्ति वक्ष्यामितेसदा १ अस्य० दर्शजननसूचितारिष्टनिरासार्थं

शान्तिंकरिष्ये इति संकल्प्यः स्थण्डिलात्पूर्वदेशेकलशं प्रतिष्ठाप्यकलशाग्न्योर्मध्ये

सर्वतोभद्रपीठेब्रह्मादिमण्डलदेवता आव्हाह्मतन्मध्येस्वर्नप्रतिमायांयेचेहेतिमन्त्रेणापितृनावाहयेत्

तद्दक्षिणेरजतप्रतिमायामाप्यायस्वेतिसोममुत्तरस्ताम्रप्रतिमायांसवितापश्चातादिसूर्यं

चावाह्यसंपूज्याग्निप्रतिष्ठाप्यसर्वतोभद्रौशान्यां गृहस्थापनादि अन्वाधाने आदित्यादिग्रहान्

अमुकसंख्याभिःसमिच्चर्वाज्याहुतिभिः पितृन्‌ अष्टाविंशतिसंख्याकाभिःसमिच्चरुभ्यां

सोमंसूर्यच प्रत्येकमष्टोत्तरशतसंख्यसमिच्चर्वाहुतिभिः शेषेणस्विष्टकृतमित्यादि अत्रस्विष्टकृतःपूर्व

मातापितृशिशूनां कलशोदकेनाभिषेकस्ततःस्विष्टकृद्बलिदानादीतिविशेशः इति दर्शशान्तिः ॥