अथसिनीवालीकुहूजननशान्तिः तत्रामावास्यायाःप्रथमोयामःसिनीवाली अन्त्योपान्त्ययामौकुहूः
मध्यवर्तिपञ्चयामादर्श इति केचित् अपरेतुचतुर्दशीमात्रयुतेऽहोरात्रेवर्तमाना अमावास्यासिनीवाली
प्रतिपन्मात्रयुतेऽहोरात्रेवर्तमानाकुहूः तेनामाया
वासरत्रयस्पशित्वलक्षणदिनवृद्ध्यभावेसूर्योदयस्पर्शत्वाभावलक्षणक्षयाभावेचदर्शोनास्त्येव
उदयात्पूर्वाहोरात्रेवर्तमानायाः सिनीवालीत्वात् उदयोत्तरंवर्तमानायाःकुहुत्वात्
दिनक्षयेसर्वाप्यमादर्शसंज्ञानतत्रसिनीवालीकुहूभागौ केवलचतुर्दशीकेवलप्रतिपद्युक्तत्वाभावात्
एवं दिनवृद्धौत्रिदिनस्पर्शमध्यदिनस्थाषष्टिनाडीमितामावास्यादर्शसंज्ञा चतुर्दश्यादियोगाभावात्
पूर्वोत्तरदिनस्थौभागौसिनीवालीकुहूसंज्ञावित्याहुः इदंमयूखे स्पष्टम् सिनीवाल्यांप्रसूतास्याद्यस्यभार्यापशुस्तथा ।
गजाश्वामहिषीचैवशक्रस्यापिश्रियंहरेत् १ गोपक्षिमृगदासीनांप्रसूतिरपिवित्तह्रतू ।
कुहूप्रसूतिरत्यर्थं सर्वदोषाकरीस्मृता २ यस्यप्रसुतिरेतेषांतस्यायुधननाशनम् ।
शान्त्यभावे ईतित्यागमत्रजातोनसंशयः ३ अत्यागेनाशयेत्किंचित्स्वयंवानाशमाप्नुयात् ।
सिनीवालीजननसूचितेत्यादिःकुहूजननसूचितारिष्टनाशेत्यादिश्चसंकल्पः कुहूजननेगोप्रसवोपीतिकेचित्
अत्रोभयत्रापिचतुर्दशीशान्तिवच्छतच्छिद्रकलशसहिताः पञ्चकलशाः मध्येरुद्रःप्रधानदेवता
इन्द्रःपितरश्चपार्श्वदेवते इति प्रतिमात्रयम् इन्द्रस्यपितृणांचप्रधानरुद्रन्यूनसंख्ययाप्रधानोक्तसर्वद्रव्यौर्होमः
अवशिष्टान्वाधानद्वतोहश्चतुर्दशीशान्तिवत् प्रधानदेवतापूजोत्तरंगोवस्त्रस्वर्णदानानिकृत्वा
गोभूतिलहिरण्याज्यवासोधान्यगुंडानिच । रौप्यंलवणमित्येतद्दशदानानिदापयेत् १ क्षीराज्यगुडदानंचकृत्वाहोमंसमारभेत् ।
एतनिदानानि ऋत्विग्भ्योदेयानि तेनान्तेपृथक्दक्षिनादानंनंकार्यम अत एवात्रगवादेर्दक्षिणारूपत्वात्सदक्षिणंदानंनभवति
अन्यत्र्दशदानादीनांसदक्षिणं दानंकार्यम् अथैतेषांमानम् भुवोमानंगोचर्म सप्तहस्तोदण्डः
त्रिशद्दण्डावर्तनम् दशवर्त्तनानिगोचर्म तिलानांद्रोणः सुवर्णरजतयोर्दशमाषतदर्धतदर्धान्यतमम् आज्यस्य
चत्वारिंशत्पलानि वाससस्त्रिहस्तत्वम् धान्यस्यपञ्च द्रोणाः एवं गुडलवणयोः एतावत्प्रमाणाशक्तौ
नित्यनैमित्तिके यथाशक्ति देयानि यथाशक्ति हिरण्यं वा तत्तत्प्रतिनिधित्वेनहिरण्यगर्भेनिमन्त्रेणदेयम्
नैमित्तिकादेरकरणेप्रत्यवायात् अभ्युदयादिफलार्थंतुदश्दानानिशक्तिंविनानकार्याणीतिभाति
होमांते बलिदानाभिषेकादि इति सिनीवालीकुहूशान्तिः