४३ कृष्णचतुर्दशीजननशान्तिः

अथकृष्णचतुर्दशीजननशान्तिः कृष्णपक्षेचतुर्दश्यांप्रसूतेः षड्विधंफलम् । चतुर्दशीच षड्‌भागांकुर्यादादौशुभंस्मृतम् १

द्वितीयेपितरंहन्तितृतीये मातरंतथा चतुर्थेमातुलंहन्तिपञ्चमे वं शनाशनम् २ षष्ठेतुधनहानिः स्यादात्मनोवं शनाशनम् ।

तत्रचतुर्दश्याःषडंशानांमध्येद्बितीयतृतीयषष्ठांशेषुजननेगोमुखप्रसवपूर्वकंचतुर्दशीशान्तिः अन्यभागेकेवलचतुर्दशीशान्तिः अस्य शिशोः

कृष्णचतुर्दश्या अमुकांशजननसूचितसर्वारिष्टनिरासद्वाराश्रीपरमेश्वरप्रीत्यर्थमित्यादिसंकल्पः आग्नेयादिचतुर्दिक्षुचत्वारः

कुम्भामध्येशतच्छिद्रकुम्भेप्रतिमायांरुद्रावाहनम् मयूखेतुपीठादौरुद्रप्रतिमांसंपूज्यतत्प्राच्यामुदीच्यां

वाशतच्छिद्रादिपञ्चकलशस्थापनपूजनम् अन्वाधानेग्रहानष्टाष्टसंख्यसमिदाज्यचरुभिरधिदेवतादीन्‌ एकैकसंख्यसमिच्चर्वाज्याहुतिभिः

रुद्रं अश्वत्थप्लक्षपलाशखदिरसमिद्भिश्चर्वाहुतिभिराज्याहुतिभिर्माषैस्तिलैः सर्षपैश्चप्रतिद्रव्यमष्टोत्तरशताष्टाविंशत्यन्यतरसंख्यया

त्र्यंबकमितिमन्त्रेण अग्निंवायुंसूर्यप्रजापतिंचतिलाहुति भिरमुकसंख्याभिःसकृद्वाव्यस्तसमस्तव्याह्रतिभिः

यद्वा प्रजापतिमेवसमस्तव्याह्रतिभिस्तिलैः शेषेणेत्यादि ॥