४२ जन्मनिदुष्टकालनिर्णीयन्ते

अथजन्मनिदुष्टकालास्तच्छान्तयश्चनिर्णीयन्ते तत्रादौगोप्रसवः यत्रजन्मकालेपितुर्मातुःसुतस्यचारिष्टमुक्तं

तत्रगोप्रसवशान्तिस्तत्तन्नक्षत्रादिशान्तिश्चकर्या धनाद्यरिष्टेषुनकार्या मूलाश्लेषाज्येष्ठामघानक्षत्रेषुजननेचतुर्थपादादिषु

पित्राद्यारिष्टाभावेपिगोप्रसवः अश्विनीरेवतीपुष्यचित्रासुनक्षत्रशान्त्यभावेपिगोप्रसवशान्तिरेवकार्या

तत्र अस्यशिशोरमुकदुष्टकालोत्पत्तिसूचितारिष्टनिवृत्त्यर्थंगोमुखप्रसवशान्तिंकरिष्ये इति संकल्प्य

गणेशपूजनमात्रंकृत्वा अङ्गादङ्गादितिमन्त्रेणशिशुमूर्धावघ्राणान्तेप्रयोगमध्य एवपुण्याहवाचनमितिकौस्तुभमयूखौ

पुण्याहवाचनंशाखोक्तंकृत्वामूर्धावघ्राणान्ते अस्यगोमुखप्रसवस्यपुण्याहंभवन्तोब्रुवन्त्वित्येकवाक्यमेवत्रिर्वदेत्

ऋत्विजश्चप्रतिब्रूयुर्नतुशाखोक्तमितिकमलाकारः नान्दीश्राद्धंनकार्यम् अग्निप्रतिष्ठान्तेकस्मिंश्चित्पीठेनवग्रहान्‍

अधिदेवतादिरहितान्‌प्रतिष्ठाप्यान्वाधानंकुर्यात् आज्यभागान्ते अपः आपोहिष्ठेतितृचेन अप्सुमेसोम

इति गायत्र्या ऋचाचमिलितदधिमध्वाज्येनप्रत्यृचमष्टाष्टसंख्याहुतिभिर्विष्णुंतद्विष्णोरित्यृचामिलितदधिमध्वाज्येनाष्टाहुतिभिः

यक्ष्महणं अक्षीभ्यामितिसूक्तेनप्रत्यृचमष्टाष्टमिलितदधिमध्वाज्याहुतिभिर्नवग्रहान्दधिमध्वाज्येनाष्टाष्टसंख्याहुतिभिःशेषेणेत्यादिमयूखादयः

कमलाकरस्तुदधिमध्वाज्येनापश्चतुर्वारंविष्णुंसकृतयक्ष्महणमक्षीभ्यामितिसूक्तेन

प्रत्यृचमष्टाष्टसंख्याहुतिभिर्नव अग्रहानेकैकयाहुत्याशेषेणस्विष्टकृतमित्याह आज्यभागहोमान्ते एकस्मिन्कुम्भेविष्णुवरुणौप्रतिमयोः

संपूज्यौ प्रतिमासुविष्णुवरुणयक्ष्महणः पूज्या इति मयूखे ततोयथान्वाधानहोम इति संक्षेपः अवशिष्टःप्रयोगःशान्तिग्रन्थेषु

एवमग्रेपिदेवताद्रव्याहुतिसंख्यानिमित्तफलामात्रंलिख्यते विस्तरोन्यत्रज्ञेयः ॥