२९ दत्तक निर्णयः

परगोत्रोत्पन्नदत्तकस्योपनयनमात्रेपालकगोत्रेणकृते उपनयनोत्तरंप्रतिग्रहेवादत्तकेनाभिवादनश्राद्धादिकर्मसु

गोत्रद्वयोच्चारःकार्यः चूडादिसंस्कारेपालकेनकृतेपालकैकगोत्र एव

विवाहेतुसर्वदत्तकेनजनकपालकयोरुभयोरपिपित्रोर्गोत्रप्रवरसंबन्धिनीकन्यावर्जनीया

नात्रसाप्तपुरुषंपाञ्चपुरुषमित्येवं पुरुषनियम उपलभ्यते सापिण्ड्यंतुजनकगोत्रेणोपनयनेजनकपितृमात्रोःकुलेसाप्तपुरुषंपाञ्चपुरुषं

ग्रहीतृमातृपितृकुले त्रिपुरुषं ग्रहीतृगोत्रेणोपनयनमात्रेकृते उभयत्रपाञ्चपुरुषंपितृकुले मातृकुलेतु त्रिपुरुषं

जातकर्माद्युपनयनान्तसंस्कारेग्रहीत्राकृतेग्रहीतृकुलेसाप्तपुरुषं मातृतः पाञ्चपुरुषम् अतोन्यून्जनककुलेकल्प्यम्

केचित्तुदत्तकप्रवेशेकुलद्वयेपिसर्वथान्यूनमेवसापिंड्यमित्याहुः एवं दत्तकसंततेरपिसापिंड्यंज्ञेयम्

दत्तकस्यमरणेपूर्वापरपित्रोस्त्रिराजं सपिण्डानामेकाहमाशौचम् उपनीतदत्तकमरणादौ

पालकसपिण्डानादंशाहादीतिनीलकण्ठीयेदत्तकनिर्णये एवं दत्तकेनापिपूर्वापरपित्रोर्मृतौत्रिरात्रं

पूर्वापरसपिण्डानांमरणे एकाहम् पित्रोर्ध्वदौहिककरणे तु कर्मांगंदशाहमेव

दत्तकस्यपुत्रपौत्रादेर्जन्ममरणयोःसपिण्डानामेकाहःसगोत्रसपिण्डेदत्तीकृतेतुसर्वेषांदशरात्रमेव

पत्नीदुहित्रादिसत्त्वेपिदत्तक एव पितृधनभागीभवति दत्तकग्रहणोत्तरमौरसेजातेदत्तकश्चतुर्थांशभागी

नसमभागी केचित्तुप्रतिग्रहोत्राजाताद्युपनयनान्तसंस्कारेविधानेचकृते

औरससमानांशभागित्वम् संस्कारमात्रकरणेविधानाभावेविवाहमात्रलाभोनान्यधनलाभः

कतिपयसंस्कारकरणेचतुर्थांशलाभ इत्याहुः दत्तकसत्त्वेप्यौरसस्यैव पित्रोः पिण्डदानेधिकारः

जनकस्यपिण्डदाभावेदत्तक एवजनकपालकयोरुभयोरपिश्राद्धंकुर्यात्धनंचोभयोर्गृह्णीयादिति

नीलकण्ठीये एवं दत्तकन्याया अपिस्वीकार उक्तविधिनाकार्यः तत्रपरगोत्रोत्पन्नायाग्रहणेविवाहे

गोत्रद्वयवर्जनंप्राग्वत् पुत्रपत्न्योरभावेदत्तकन्यैव पितृधनभागिनी इति दत्तोपयोगिसर्वनिर्णयः ।