२८ यजुर्वेदिनांप्रयोगः

अथयजुर्वेदिनांबौधायनोक्तरीत्याप्रयोगः तत्रराज्ञः शिष्टानांबन्धूनांचनुमतिंलब्ध्वासंकल्पादि आचार्यपूजान्तंप्राग्वत्कुर्यात्

ब्राह्मणभोजनसंकल्पान्ते आचार्योदेवयजनोल्लेखनादि आप्रणीताभ्यःकुर्यात् ग्रहीतादातुः

समक्षंगत्वापुत्रंदेहीतिस्वयमेवभिक्षेत दाताददामीत्याह ततोदातुःसंकल्पादिपुत्रदानान्तंपूर्ववत्

ग्रहीताधर्मायत्वागृह्णामिसंतत्यैत्वागृह्णामीतिपरिगृह्यैनंपुत्रंवस्त्रकुण्डलाङ्गलीयकैरलंकुर्यात्

आचार्यःकुशमयंबर्हिःपालाशमयमिध्मंचसंपाद्यपरिधानप्रभृति अग्निमुखंकृत्वाचरुश्रपणासादनान्ते

पूर्वांगहोमंकृत्वा यस्त्वाह्रदाकीरिणेतिपुरोनुवाक्यामुक्त्वा यस्मैत्वं सुकृते इति याज्ययाहुत्वा

व्यस्तसमस्तव्याह्र्तीर्हुत्वास्विष्टकृदादिकुर्यात् आचार्यायदक्षिणावस्त्रकुण्डलांगुलीयकं दद्यादिति ।