अथ ऋग्वेदिनांपुत्रप्रतिग्रहप्रयोगः पूर्वेद्युः कृतोपवासःपवित्रप्राणिः
प्राणानायम्येदेशकालौसंकीर्त्यममाप्रजत्वप्रयुक्तपैतृक ऋणापाकरणपुन्नामनरकत्राणहारा
श्रीपरमेश्वरप्रीत्यर्थशौनकोक्तविधिनापुत्रप्रतीग्रहंकरिष्ये
तदङ्गत्वेनस्वस्तिवाचनमाचार्यवरणंविष्णुपूजनमन्नदानंचकरिष्ये आचार्यमधुपर्कान्तेविष्णुंसंपूज्यब्राह्मणादिभोजनसंकल्पयेत्
आचार्यःयजमनानुज्ञयापुत्रप्रतिग्रहाङ्गत्वेनविहितंहोमंकरिष्ये इति संकल्प्य अग्निंप्रतिष्ठाप्य चक्षुषी
आज्येनेत्यन्तेसकृदग्निंसूर्यासावित्रीषड्वारंचरुणा अग्निंवायुंसूर्यप्रजापतिंचाज्येनशेषेण
स्विष्टकृतमित्यादि अन्वाधाय अष्टाविंशतिमुष्टीस्तूण्णींनिरुप्यतथैवप्रोक्ष्याज्योत्पवनान्तंकुर्यात् दातारंगत्वा एतस्मैपुत्रं
देहीतियाचयेत दातादेशकालौसंकीर्त्य श्रीपरमेश्वरप्रीत्यर्थंपुत्रदानंकरिष्ये इति संकल्प्यगणपतिपूजनान्तेप्रतिग्रहीतारं
यथाशक्तिसंपूज्य येयज्ञेनेतिपञ्चानांनाभानेदिष्ठोमानवोविश्वेदेवास्त्रिष्टुप पञ्चम्यनुष्तुप पुत्रदानेविनियोगः
येयज्ञेनेति ऋक्पञ्चक्रान्ते इमंपुत्रंतवपैतृक ऋणापाकरणपुन्नामनरकत्राणसिद्ध्यर्थं आत्मनःश्रीपरमेश्वरप्रीत्यर्थंतुभ्यमहं
संप्रददेनमम् प्रतिगृह्णातुपुत्रंभवान् इति प्रतीग्रहीतृहस्तेजलंक्षिपेत् ग्रहीता
देवस्यत्वेतिहस्तद्वयेनप्रतिगृह्यस्वाङ्के उपवेश्य अङ्गादङ्गात्संभवसीतिमन्त्रेणमुर्धनिनिघ्रेत्
वस्त्रकुण्डलाद्यलंकृतंगीतवाद्यैः स्वस्तिमन्त्रैश्चस्वगृहमानीयपादौप्रक्षाल्याचम्याचार्यदक्षिणतःस्वयंस्वदक्षिणेभार्योत्संगेपुत्र इत्युषविशेत्
आचार्योबर्हिरासादनाद्याज्यभागान्तेचरुमवदाय यस्त्वाह्रदेतिद्वयोरात्रेयोवसुश्रुतोग्निष्टुप
पुत्रप्रतिग्रहांगहोमेविनियोगःयस्त्वाह्रदेति ऋकद्वयेनैकमेवावदानंजुहुयात् यजमानोग्नय इदंनमम
तुभ्यमग्रेपर्यवहन्सूर्यासावित्रीसूर्यासावित्र्यनुष्टुप् । सूर्यासावित्र्या इदं० सोमोदितिपञ्चानांसूर्यासावित्रीसूर्यासावित्री
अनुष्टुभौजगतीत्रिष्टुबनुष्टुप । पंचस्वपिसूर्यासावित्र्या इदं०
एवं सप्तचर्वाहुतीर्हुत्वाज्यंव्यस्तसमस्तव्याह्रतिभिर्हुत्वास्विष्टकृदादिसमाप्याचार्याय धेनुंदत्त्वाविप्रान्भोजयेत् ।