अथदत्तकेग्राह्याग्राह्याविचारः ब्राह्मणानांसोदरभ्रातृपुत्रोमुख्यत्वात्प्रथमंग्राह्यः
तदभावेसगोत्रसपिण्डोयः कश्चित्सापत्नश्चातृपुत्रोवा तदभावेत्वसगोत्रसपिण्डोमातुलकुलजपितृष्वसादिकुलजः
तदभावेत्वसपिण्डःसमानगोत्रः तदभावेत्वसपिण्डः पृथक्गोत्रोपि असगोत्रसपिण्डेषुभागिनेयदौहित्रौवर्ज्यौ
एवं विरुद्धसंबन्धापत्त्यापुत्रबुद्ध्यनर्होमातुलोपिनग्राह्यः अत एवसगोत्रसपिण्डेषुश्चातापितृव्योवानग्राह्यः
विप्रादीनांवर्णानांसमानवर्न एव तत्रापिदेशभेदप्रयुक्तगुर्जरत्वान्ध्रत्वादिनासमानजातीय एव सर्वोपिसभ्रातृक एवग्राह्यः
तत्रापिज्येष्ठपुत्रोनग्राह्योनदेयः शूद्रस्यदौहित्रभागिनेयावपिग्राह्यौ अत्रमूलं
भातृणामेकजातानामेकश्चेत्पुत्रवान्भवेत सर्वेतेतेनपुत्रेणपुत्रिणोमनुरब्रवीत् १
अनेनवचनेन नापुत्रस्यलोकोस्ति जायमानोवैब्राह्मणस्त्रिभि ऋणवान्जायत
इत्यादिशास्त्रबोधितस्याप्रजत्वप्रयुक्तदोषस्यनिवृत्तिर्विधिना अस्वीकृतेनापिश्चातृपुत्रेण
पितृव्यस्यभवतीतिबोध्यते अतःपुत्रसदृश्यत्वात्ग्राह्येषुमुख्य इति ज्ञाप्यते मुख्याभावेतत्सदृशःप्रतिनिधिरितिन्यायात्
नचास्मादेववाक्याद्विधिवत्प्रतिग्रहंविनैवतस्यपुत्रत्वमितिशङ्क्यम् तथासति औरसदत्तकादिद्वादशाविधपुत्रवदेतस्यपत्नीत
पूर्वमेवधनहरित्वपिण्डदत्वौचित्यैन पत्नीदुहितरश्चैवपितरौश्चातरस्तथा
तत्सुतागोत्रजाबन्धुरितितत्क्रमवाक्येभ्रात्रनन्तरंभ्रातृसुतनिवेशानुपपत्तेः तस्मात्पत्नीतः
पूर्वमदीयपिण्डदानधनग्रहणेधिकारीकश्चिद्धवत्वितिकामनायांविधिवत्स्वीकृत एवतथाधिकारीभवति
नान्यथा तादृशकामनाया अभावे तुपितृ ऋणापाकरणादिपारलौकिकमात्रार्थंदत्तपुत्रोनग्राह्यः
श्चातृपुत्रेणैवतत्सिद्धेरित्येवं वचनतात्पर्यम् क्वचिद्देशेवैदिकविधिंविनापिदातृग्रहीतृसंमतिराजपुरुपाद्यनुमत्यादि
लौकिकव्यापारमात्रेणोपनयनादिसंस्कारकरणमात्रेणचसगोत्रसपिण्डेपुत्रत्वसिद्धिव्यवहारोदृश्यते तत्रमूलंनोपलभ्यते
सर्वासामेकपत्नीनामेकाचेत्पुत्रिणीभवेत् । सर्वास्तास्तेनपुत्रेणपुत्रिण्योमनुरब्रवीत १
इति वचनंतु सापत्नपुत्रस्यागृहीतस्यापिपुत्रत्वपिण्डदानाद्यधिकारीत्वविधायकम्
तेनैकसपत्न्याःसपुत्रत्वेन्यसपत्न्यापुत्रोनग्राह्यःदौहित्रौभागिनेयश्चशूद्राणांविहितः सुतः ।
ब्राह्मणादित्रये नास्तिभागिनेयःसुतःक्वचित् १ नत्वेवैकंपुत्रंदद्यात्प्रतिगृह्णीयाद्वेतिनज्येष्ठंपुत्रंदद्यादितीच
अत्रौरसानेकपुत्रेणपुत्रदानंकार्यमितिविधीयते तेन पूर्वं दत्तकोगृहीतस्तत औरसोजातस्तादृशानेकपुत्रेणदत्तक एकल
औरसोवानदेयःसधवयास्त्रियामत्यनुज्ञयापुत्रोगृहीतव्योदातव्यश्च भर्त्रनुज्ञाभावेतुनग्राह्योनदेयः
एवं विधवयापिस्त्रिया त्वयापुत्रः स्वीकार्य इति उक्त्वा भर्तरिमृतेग्राह्यः
स्पष्टमीदृशानुज्ञाभावेभतृजीवनदशायांतन्मरणोत्तरमाप्तमुखाद्वापुत्रस्वीकारविषयकभर्तृभिप्रायंज्ञातवत्यापिग्राह्य इति सर्वसंमतम्
एतदुभयविधभर्त्रनुज्ञाभावेपितत्तच्छास्नान्नित्यकाम्यव्रतादिधर्माचरण इवपुत्रप्रति
ग्रहेपिनापुत्रस्यलोकोस्तीत्यादिसामान्यशास्त्रादेवविधवाया अधिकारः
नस्त्रीपुत्रंदद्यात्प्रतिगृहीयाद्वान्यत्रभर्त्रनुज्ञानादितिवसिष्ठवाक्यंतुभर्त्रनुज्ञारहितांप्रतिपुत्राप्रतिग्रहाभ्यनुज्ञापरं नतुपुत्रप्रतिग्रहनिषेधपरम्
शास्त्रप्राप्तनिषेधायोगात् अतस्तादृशस्त्रियाःपुत्रप्रतिग्रहप्रतिबन्धेनवृत्तिलोपपिण्डविच्छेदादिकुर्वन्नरकभाग्भवति योब्राह्मनस्यवृत्तौतुप्रतिकूलं समाचरेत् ।
विड्भुजांतुकृमीणांस्यादितिशास्त्रादितिकौस्तुभेविस्तरः स्त्रीभिःपुत्रस्वीकारेव्रतादिवद्धिप्रद्वाराहोमादिकंकार्य एवं शूद्रेणापि
विप्रःशूद्रदक्षिणामादायवैदिकमन्त्रैस्तदीयहोमादि करोतितत्रशूद्रःपुण्यफलभाग्भवति किंतुविप्रस्यैवप्रत्यवायः
पुत्रंप्रतिगृह्यग्रहीत्राजातकर्माद्याश्चूडाद्यावासंस्काराः कार्या इति मुख्यःपक्षः असंभवेसगोत्रसपिण्डेषुक्टोपनयनोपिविवाहितोपिवादत्तकोभवति
असंजातपुत्र एव विवाहितोग्राह्य इति मेभाति असपिण्डसगोत्रेषुकृतोपनयन एवेत्यपिभाति भिन्नगोत्रस्तु
अकृतोपनयन एवग्राह्याः केचित्तुकृतोपनुयनोपिभिन्नगोत्रोग्राह्य इत्याहुः इति ग्राह्याग्राह्याविवेकः ।