१८ प्रायश्चित्तप्रयोगः

सचैलंस्नात्वाशक्तौक्लिन्नवासाःपर्षदग्रेगोवृषप्रत्यान्मायं

निष्कादिप्रमाणंब्रह्मदण्डंनिधायसाष्टांङ्गप्रणम्यपर्षदंप्रदक्षिणीकुर्यात् सर्वेधर्मविवेक्तारोगोप्तारः सकलाद्विजाः ।

ममदेहस्यसंशुद्धिकुर्वन्तुद्विजसत्तमाः १ मयाकृतंमहाघोरंज्ञातमज्ञातकिल्बिषम् ।

प्रसादःक्रियतांमह्यंशुभानुज्ञांप्रयच्छथ २ पूज्यैःकृतपवित्रोहंभवेयंद्विजसत्तमाः ।

मामनुगृहन्तुभवन्त इति वदेत् विप्रैःकिंतेकार्यंमिथ्यामावादीः सत्यमेववदेतिपृष्टः स्वपापख्यापयेत्

मयाममपत्न्यावा इहजन्मनिजन्मान्तरेवा अनपत्यत्वमृतापत्यत्वादिनिदानभूतबालघातविप्ररत्नापहारादिदुरितंकृतंतस्यनाशायकरिष्यमाणे हरिवं शश्रवणादौकर्मविपाकोक्तेविधानेऽधिकारार्थंदीर्घायुष्मत्पुत्रादिसंततिप्राप्तयेप्रायश्चित्तमुपदिशन्तुभवन्त इति प्रार्थयेत्

तेचपापिनापूजितानुवादकाग्रेषडब्दत्र्यब्दसार्धाब्दान्यतमप्रायश्चित्तेनपूर्वोत्तराङ्गसहितेनाचरितेनतवशुद्धिर्भविष्यतितेनत्वं कृतार्थोभविष्यसीतिवदेयुः

अनुवादकःपापिनंवदेत् ततःकर्ता ओमित्यङ्गीकृत्यपंर्षदंविसृज्यदेशकालौसंकीर्त्य

सभार्यस्यममैतज्जन्मजन्मान्तरार्जितानपत्यत्वमृतापत्यस्यादिनिदानभूतबालघातविप्ररत्नापहारादिजन्यदुरितसमूलनाशकर्मविपाकोक्त

विधानाधिकारसिद्धिद्वारादीर्घायुष्मद्भहुपुत्रादिसंततिप्राप्तयेषडब्दंसार्धाद्वं त्वाप्रायश्चित्तंपूर्वोत्तरांङ्‌सहितममुकप्रत्याम्नायेनाहमाचरिष्य

इति संकल्प्य दिनान्तेकेशरोमनकादिवापयित्वास्नात्वा आयुर्बलंयशोवर्चःप्रजाःपशुवसूनिचब्रह्मप्रज्ञांचमेधांचत्वं नोदेहिवनस्पते १

इति विहितकाष्ठेनदन्तधावनंकुर्यात् ततोदशस्नानानि तत्रभस्मस्नानम् ईशानायनमःशिरसि तत्पुरुषायनमो मुखे अघोरायनमो

ह्रदये वामदेवायनमो गुह्ये सद्योजातायनमःपादयोःप्रणवेनसर्वाङ्गेषुभस्मविलिम्पेत ईशानादिपदोपेतैर्मन्त्रैर्वाभस्मलेपः ।