१७ कृच्छ्र प्रतिनिधिः

अथप्रत्याम्नायाः । तत्रप्राजापत्यप्रत्याम्नायाः दशसहस्त्रगायत्रीजपः गायत्र्यासहस्त्रंतिलहोमः

क्वचित्सहस्त्रंव्याहत्यातिलहोम उक्तः शतद्वयंप्राणायामाः द्वादशब्राह्मणभोजनम् यावत्केशशोषणंविरम्यतीर्थेद्वादशस्त्रानानि

वेदसंहितापारायणम् योजनंयात्रा द्वादशसहस्त्रंनमस्काराः द्वात्रिंशदुत्तरंशतंप्रनायामान्कृत्वा अहोरात्रमुपोषितःप्राङ्मुखस्तिष्ठेत्

गोमूत्रेणयावकभक्षणे ऐकाहिककृच्छ्रम् कश्चित्रुद्रैकदशिनीजपात्कृच्छ्रमाह पावकेष्टिः

पावमानेष्टिः पडुपवासाः प्राजापत्यप्रत्याम्नायाः एकविप्रभोजनमुपवासस्य

अत्यशक्तौसहस्त्रगायत्रीजपोद्वादशप्राणायामावेतिस्मृत्यर्थसारे प्राजापत्येष्वशक्तस्तुधेनुंदद्यात्पयस्विनीम्

निष्कनिष्कार्धनिष्कपादान्यतमप्रमाणंहेमरूप्यंवाधेनुमूल्यंदेयम् अत्यशक्तेननिष्कपादार्धरजतंतत्समंधान्यादिवादेयम्

अतिकृच्छ्रेगोद्वयम् सांतपनेगोद्वयन् पराकेतप्तकृच्छेचगोत्रयम् कच्छ्रातिकृच्छेगोचतुष्टयंगोत्रयंवा

चान्द्रायणे अष्टौपञ्चचतस्त्रस्तिस्रोवागावः मासंपयोव्रतेमासोपवासेचपञ्चगावः मासंगोमूत्रयावकव्रते षट्‌गावः ।