तत्रत्रिंशत्कृछ्रात्मकोऽब्दःकृछ्रस्तुद्वादशदिनसाध्यः तथाहि
प्रथमदिनेमध्याह्नेहविष्यद्यैकभक्तस्यषङ्विंशतिर्ग्रासाभोक्तव्याःद्वितीयेऽहनिनक्तंद्वाविंशतिर्ग्रासाः
तृतीये अयाचितस्यचतुर्विंशतिर्ग्रासाः चतुर्थेनिरशनम् अयंपादकृच्छ्रः कथंचित्
त्रिगुणीकृतोयंप्राजापत्यःकृच्छ्रः एकभक्तनक्तायाचितद्वयोपवासद्वयैरर्धकृच्छ्रः यद्वा
त्र्यहमयाचितंत्र्यहमुपवास इत्यर्धकृच्छ्रः एकभक्तायाचितोपवासैःकथंचितत्रिगुणैःपादोनकृच्छ्रः
येषुनवदिनेषुभोजनप्राप्तिस्तत्रग्रासनियमंत्यक्त्वा पाणिपूरान्नभोजने अतिकृच्छ्रः
एकग्रासपर्याप्तस्यप्राणधारणपर्याप्तस्यवादुग्धस्य एकविंशतिदिनेषुभक्षणेकृच्छ्रातिकृच्छ्रः
एकदिनेसकुशोदकमिश्रपञ्चगव्याशनं एक उपवास इति द्वैरात्रिकःसांतपनकृच्छः
पञ्चगव्यकुशोदकानाममिश्राणामेकैकस्यैकैकदिनेऽशनमेक उपवास इति सप्ताहसाध्योमहासान्तपनः
त्र्यहं मिश्रितपञ्चगव्याशनेयतिसान्तपनम् तप्तानांदुग्धघृतजलानामेकैकस्यत्रिदिने पानमुपवासत्रयंचेतितप्तकृच्छ्रः
शीतानांपानेशीतकृच्छ्रः द्वादशाहोपवासेनपराककृच्छ्रः शुक्लपक्षेप्रतिपदादितिथिषुमयूराण्डसमानैकैकग्रासान्वर्धयन्पुर्णिमायां
पञ्चदशग्रासाः क्षयेचतुर्दशवृद्धौषोडशसंपद्यन्ते कृष्णपक्षे एकैकग्रासह्नासेनामायामुपवास
इति माससाध्यंयवमध्यसंज्ञंचान्द्रायणम् कृष्णपक्षेप्रतिपदिचतुर्दशग्रासानभुक्त्वा एकैकग्रासह्नासेन
दर्शे अनशनंशुक्ले एकैकग्रासवृद्धिरितिकृष्णादिशुक्लान्तंपिपीलिकामध्यचान्द्रायणम्
कृच्छ्रचान्द्रायणादेःत्रिकालस्नानग्रासाभिमन्त्रणादिविधियुतःप्रयोगःप्रायश्चित्तप्रक्ररणेज्ञेयः
अतिकृच्छादिलक्षणंप्रसंगादत्रोक्तम् अब्दगणनातुप्राजापत्यकृच्छ्रैरेव ।