०९ नान्दीश्राद्धविचारः

अथनान्दीश्राद्धविचारः । गौर्यादिमातृकापूजनंनान्दीश्राद्धाङ्गम् यत्रनान्दीश्राद्धं

नक्रियतेतत्रमातृकापूजनमपिनकार्यम् तत्र

पूर्वमातृपार्वणम् ततःपितृपार्वणंततःसपत्नीकमातामहपार्वणमितिपार्वनत्रयात्मकंनान्दीश्राद्धं

नक्रियतेतत्रमातृकापूजनमपिनकार्यम् तत्र

पूर्वमातृपार्वणम् ततःपितृपार्वणंततःसपत्नीकमातामहपार्वणमितिपार्वणत्रयात्मकंनान्दीश्राद्धं

मातृजीवनेसपत्नमातृमरणेपिनमातृपार्वणम् एवं मातामह्याजीवनेमातामहीसपत्न्याभरणेपिनमातामहादेःसपत्नीकत्वम्

एवं दर्शादावपिमातृजीवनेसपत्नमातृमरणेपिनसपत्नीकत्वं पित्रादेः सपत्नीकत्वम्

एवं दर्शादावपिमातृजीवनेसपत्नमातृमरणेपिनसपत्नीकत्वं पित्रादेः अत्र स्वधाशब्दस्थानेस्वाहाशब्दः

सव्येनैवसर्वाःक्रियाः प्रतिपार्वणंदैवेचयुग्माब्राह्मणाः कुशस्थानेदूर्वाःविवाहादिमंगलर्मागेवृद्धिश्राद्धे

यज्ञादिकर्मागेतु अमूलादर्भाग्राह्याः दूर्वादर्बाश्चयुग्मा एव उदङ्‌मुखःकर्ताप्राङ्‌मुखाविप्राःप्राङ्‌मुखोवाकर्ता उदङ्‌मुखाविप्राः

पूर्वाह्णकालः प्रदक्षिणंकर्म आधानांगत्वपराह्णेकार्यम् पुत्रजन्मनिमित्तकंरात्रावपि

एवं चविश्वेदेवार्थविप्रसहिता अष्टौविप्रा अत्यशक्तौचत्वारोवा वृद्धिश्राद्धेविश्वेदेवाःसत्यवसुसंज्ञकाः

सोमयागगर्भाधानपुंसवनसीमन्तोन्नयनाधानादिकर्मागभूतवृद्धिश्राद्धेक्रतुदक्षसंज्ञकाः

गर्भाधानादिसंस्कारेषुवापीदेवप्रतिष्ठादिपूर्तकर्मसु अपूर्वाधानादिषुसंन्यासस्वीकारेकाम्यवृषोत्सर्गे

गृहप्रवेशेतीर्थयात्रायांश्रवणाकर्मसर्पबल्याश्वयुज्याग्रयणादिपाकसंस्थानांप्रथमारंभेनान्दीश्राद्धमावश्यकम्

पुनराधानेसोमयागादिभिन्ने असकृत्क्रियमाणेकर्मणि अष्टकादिश्राद्धकर्मसुचनान्दीश्राद्धंनकार्यम्

गर्भाधानपुंसवनसीमंतचौलमौजीविवाहातिरिक्तसंस्कारेषुश्रवणाकर्मादिषु चनान्दीश्राद्धम् वैकल्पिकम्

जातकर्मांगपुत्रजन्मनिमित्तकंचनांदीश्राद्धंष्टथगेव जन्मकाले एवजातकर्मणिक्रियमाणेपुत्रजन्मनिमित्तकंजातकर्मागंचवृद्धिश्राद्धं

तन्त्रेणकरिष्ये इति संकल्प्यसकृदेवकार्यम्

नामकर्मणासहजातकर्मचिकीर्षायांपुत्रजन्मनिमित्तंजन्मकाले एवहेम्नाकृत्वाकर्मांगनामकर्मकालेकार्यम्

तदातदकरणेनामकर्मकाले एव पुत्रजन्मनिमित्तकंजातकर्मनामकर्मांगचनान्दीश्राद्धंतंत्रेणकरिष्य इति संकल्प्यैकमेवकार्यम्

एवं चौलादिकर्मणासहजातकर्मादिषुक्रियमाणेषुपुत्रजन्मनिमित्तकं चौलान्तसंस्कारांगंचनान्दीश्राद्धंतंत्रेणकरिष्य इति संकल्पः

तथाचसहैवक्रियमाणेषुचौलादिष्वन्येषुचकर्मसुनान्दीश्राद्धस्यसकृदेवानुष्ठानंनतुप्रतिकर्मष्टथगनुष्ठानम‍

एवं यमलयोर्युगपदेकसंस्कारकरणेपिज्ञेयम् ऋकशाखाभिःकात्यायनैश्चपितृपितामहप्रपितामहा इति पितृपुर्वक उच्चारः

कार्यः अन्यशाखिभिस्तुप्रपितामहपितामहपितरोनान्दीमुखा इंतिप्रपितामहपूर्वक उच्चारः

मातृपार्वणेनान्दीमुखशब्देङीष्‌विकल्पान्नान्दीमुख्य इति नान्दीमुखा इति पक्षद्वयमुच्चारे

अनादिसंज्ञात्वेननखमुखात्संज्ञायामितिनिषेधानवतारादितिपुरुषार्थचिन्तामणिकारः ।