०४ रजस्वलायाःप्रथमदिननिर्णयः

रजस्वलायाःप्रथमदिननिर्णयस्तुरात्रेःपूर्वभागद्वयेपूर्वदिनंप्रथमम् तृतीयेभागेरजोदर्शने

उत्तरंदिनंप्रथमंयद्वा र्धरात्रात्पूर्वं पूर्वदिनंप्रथमम् अर्धरात्रादूर्ध्वं उत्तरदिनंप्रथमं एवं जननमरणाशौ चेपि

ज्ञेयम् यस्याःप्रायेणमासेरजोदर्शनंतस्याःसप्तदशदिनपर्यन्तंपुनारजोदर्शनेस्नानाच्छुद्धिः

अष्टादशाहे एकरात्रमशुचित्वं एकोनविंशेद्विरात्रंविंशतिप्रभृतित्रिरात्रमयस्याःप्रायःपक्षेपक्षेरजोदर्शनंतस्याः

दशदिनपर्यन्तंस्नानाच्छुद्धिः एकादशाहेरजोदृष्टौ एकाहः द्वादशेद्विरात्रं ऊर्ध्वं त्रिरात्रम्रोगेणयद्रजःस्त्रीणामन्वहंप्रतिवर्ततेतत्रनास्पृश्यत्वं

किंतुरजोनिवृत्तिपर्यन्तंपाकदैवपित्र्यकर्मानधिकारमात्रम् रोगजेवर्तमानेपिमासजंरजोनिर्यात्येवतत्रसावधानासतीत्रिरात्रमशुचिर्भवेत्

यत्तुगर्भिण्याःप्राक्प्रसवात्रोगजंरजोदर्शनंतत्रत्रिदिनमेवऽशौचम् प्रसूतिकायाःकिंचिदूनमासात्पूर्वं रजोनिवृत्तौस्नानमात्रम् पूर्णेमासेत्रिरात्रम्

उच्छिष्टास्त्रीयदिरजस्वलाभवतितदाशुद्ध्यन्तेत्र्यहमधरोच्छिष्टत्वेकाहमुपवासः अविज्ञातरजोदोषायदिगृहेव्यवहरतितदातयास्पृष्टं

गोरसमृद्भाण्डादिकंजलादिकंचनत्याज्यम् सूतकवज्ज्ञानकालमारभ्यैवदोषात् अशुचित्वं तुज्ञानदिनमारभ्यत्रिदिनमितिकेचित्

अन्येतुद्वितीयादिदिनेरजसिज्ञातेसूतकवच्छेषदिनैरेव शुद्धिरित्याहुः ।