९६ वैकुण्ठचतुर्दशी

अथवैकुण्ठचतुर्दशी पूर्वेद्युरुपवासंकृत्वारुणोदयव्यापिन्यांचतुर्दश्यांशिवं संपूज्यप्रातःपारणंकर्यम्

तथाचचतुर्दशीयुक्तारुणोदयवति अहोरात्रे उपवासः फलितः उभयत्रारुनोदयव्याप्तौपरत्रारुनोदयेपूजापूर्वत्रोपवासः

उभयत्राव्याप्तौ चतुर्दशीयुक्ताहोरात्रे एवारुणोदयेपूजापूर्वत्रोपवासश्च केचित्तुविष्णुपूजायामियं निशीथव्यापिनीग्राह्या

दिनद्वयेतद्व्याप्तौनिशीथप्रदोषोभयव्यापिनीग्राह्येत्याहुः अस्यामेवचतुर्दश्यांपरविद्धायांकार्तिकमासव्रतोद्यापनाङ्गत्वेनोपवासं

कृत्वाधिवासनंविधाय रात्रौजागरणंकुर्याद्गीतवाद्यादिमंगलैः । नराणांजागरेविष्णोर्गीतंनृत्यंचकुर्वताम् १

गोसहस्त्रंचददतांफलंसममुदाह्रतम् इत्यादिवाक्यैर्विहितं

गीतनृत्यवाद्यविष्णुचरितपठनस्वेच्छालापलीलानुकारैर्हरिजागरंकृत्वापरविद्धापौर्णमास्यांसप्तनीकाचार्यंवृत्वा अतादेवेतिद्वाभ्यां

तिलपायसंहुत्वागोदानंकार्यमितिमासव्रतोद्यापनम् कार्तिकशुक्लद्वादशीपौर्णमासीचमन्वादिः सापौर्वाह्निकीग्राह्या अन्यत्पूर्वमुक्तम् ।