अथप्रबोधोत्सवतुलसीविवाहौ तत्रप्रबोधोत्सवःकार्तिकशुक्लैकादश्यांकचिदुक्तः रामार्चनचन्द्रिकादौद्वादश्यामुक्तः
उत्थापनमन्त्रेद्वादशीग्रहणात् द्वादश्यामेवयुक्तः तत्रापिद्वादश्यांरेवत्यन्त्यपादयोगोरात्रिप्रथमभागेप्रशस्तः
तदभावेतत्रैवरात्रौरेवतीनक्षत्रमात्रयोगोपि तदभावेरात्रिप्रथमभागेकेवलद्वादश्यपि एवं केवलरेवत्यपि
द्वादशीरेवत्योरुभयोरपिरात्रावभावेदिवैवद्वादशीमध्येकार्य इति कौस्तुभे स्थितम्
तथापिपारणाहेपूर्वरात्रौ इति वचनात्पारणाहेरात्रिपूर्वभागेद्वादश्यभावेपित्रयोदश्यामेव पारणाहेप्रबोधोत्सव इति देशाचारः
एवं तुलसीविवाहस्यनवम्यादिदिनत्रये एकादश्यादिपूर्णिमान्तेयत्रक्वापिदिने
कार्तिकशुक्लान्तर्गतविवाहनक्षत्रेषुवाविधानादनेककालत्वं तथापिपारणाहेप्रबोधोत्सवकर्मणासहतन्त्रतयैवसर्वत्रानुष्ठीयते इति सोपिपारणाहेपूर्वरात्रेकार्यः
प्रबोधोत्सवात्पृथकचिकीर्षायांकालान्तरेवाकार्यः तत्रपुण्याहवाचननान्दीश्राद्ध विवाहहोमाद्यङ्गसहितस्तुलसीविवाहप्रयोगः कौस्तुभादौज्ञेयः
संक्षेपतस्तुप्रबोधोत्सवेनैकतन्त्रतयाशिष्टाचारमनुसृत्युलिख्यते देशकालौसंकीर्त्यश्रीदामोदर
प्रीत्यर्थंप्रबोधोत्सवं संक्षेपतस्तुलसीविवाहविधिंचतन्त्रेणकरिष्ये तदङ्गतयापुरुषसूक्तेनविधिनाषोडशोपचारैस्तन्त्रेण
श्रीमहाविष्णुपूजांतुलसीपूजांचकरिष्ये न्यासादिविधाय श्रीविष्णुंतुलसींचध्यात्वासहस्त्रशीर्षेतिश्रीमहाविष्णुंतुलसीचावाह्य
पुरुश एवेत्यादिभिः श्रीमहाविष्णवे दामोदरायश्रीदेव्यैतुलस्यैचनम आसनमित्यादि स्नानान्ते मङ्गलवाद्यैः
सुगन्धितैलहरिद्राभ्यांनागवल्लीदलगृहीताभ्यां उष्णोदकेनचमङ्गलस्नानंविष्णवेतुलस्यैचसुवासिनीभिः
कारयित्वास्वयंवादत्त्वापञ्चामृतस्नानंसमर्प्यशुद्धोदकेनाभिषिच्यवस्त्रयज्ञोपवीतचन्दनंदत्त्वातुलस्यैहरिद्राकुंकुमकन्ठसूत्रमङ्गलालंकारान्दत्त्वामन्त्रपुष्पान्तपूजां
समाप्यघण्टादिवाद्यघोषेणदेवं प्रबोधयेत् तत्रमन्त्राः इदंविष्णु० योजागारेतितु आचारप्राप्तः
ब्रह्मेन्द्ररुद्राग्निकुबेरसूर्यसोमादिभिर्वन्दितवन्दनीय
बुद्ध्यस्वदेवेशजगन्निवासमन्त्रप्रभावेनसुखेनदेव १ इयंचद्वादशीदेवप्रबोधार्थतुनिर्मिता ।
त्वयैवसर्वलोकानांहितार्थशेषशायिना २ उत्तिष्ठोत्तिष्ठगोविन्दत्यजनिद्रांजगत्पते ।
त्वयिसुप्तेजगत्सुप्तमुत्थितेचोत्थितंजगत् ३ एवमुत्थाप्य चरणं पवित्रं० १ गतामेघावियच्चैवनिर्मलंनिर्मलादिशः ।
शारदानिचपुष्पाणिगृहाण ममकेशव १ इत्यादिमन्त्राभ्यांपुष्पाञ्जलिंदद्यात्
अथाचारातुलसीसंमुखांश्रीकृष्णप्रतिमांकृत्वामध्येन्तःपटंधृत्वामंगलाष्टकपद्यानिपठित्वा अन्तः
पटंविसृज्याक्षताप्रक्षेपंकृत्वादामोदरहस्तेतुलसीदानंकुर्यात् देवीकनकसंपन्नांकनकाभरणैर्युताम् ।
दास्यामिविष्णवेतुभ्यंब्रह्मलोकजिगीषया १ मयासंवर्धितांयथाशक्त्यलंकृतामिमांतुलसीदेवीदामोदरायश्रीधरायवरायतुभ्यमहंसंप्रददे
देवपुरतः साक्षतजलंक्षिपेत् श्रीमहाविष्णुःप्रीयतामित्युक्त्वा इमांदेवीप्रतिगृह्णातुभवान इति वदेत् ततोदेवहस्तस्पर्शतुलस्याः
कृत्वाक इदंकस्मा अदात्कामःकामायादात्कामोदाताकामः
प्रतिग्रहीताकामंसमुद्रमाविशकामेनत्वाप्रतिगृह्णामिकामैतत्तेवृष्टिरसिद्यौस्त्वाददातुपृथिवीप्रतिगृह्णातु
इति मन्त्रमन्येनवाचयेत् यजमानः त्वं देवि मेग्रतोभूयास्तुलसीदेविपार्श्वतः ।
देवित्वं पृष्ठतोभूयास्त्वद्दानान्मोक्षमाप्नुयाम् १ दानस्यप्रतिष्ठासिद्ध्यर्थमिमांदक्षिणांसंप्रददे देवपुरतोदक्षिणामर्पयेत् ततः
स्वस्तिनोमिमीतां शंन इत्यादिस्वस्वशाखोक्तानिशान्तिसूक्तानिविष्णुसुक्तानिजपठेयुः
तुलसीयुतायविष्णवेमहानीराजनंकृत्वामन्त्रपुष्पंदत्त्वा
सपत्नीकःसगोत्रजःसामात्योयजमानश्चतस्त्रःप्रदक्षिणाःकुर्वीत ब्राह्मणेभ्योदक्षिणादत्त्वायथाशक्तिब्राह्मणभोजनंसंकल्प्यकर्मेश्वरार्पणंकुर्यात्
एवं देवं प्रबोध्यकार्तिकेयद्यद्रव्यस्यवर्जनंकृतं तत्तद्रव्यमुक्तरीत्याद्रव्यान्तरंचब्राह्मणेभ्योदत्त्वाव्रतसंपूर्णतांप्रार्थयेत्
इदंव्रतंमयादेवकृतंप्रीत्यैतवप्रभो ।
न्यूनंसंपूर्णतांयातुत्वत्प्रसादाज्जनार्दन १ इति ततोव्रतंभगवदर्पणंकुर्यात् चातुर्मास्यव्रतसमाप्तिरप्यत्रैवेतिकेचित्
कार्तिकमासव्रतोद्यापनंचातुर्मास्यव्रतोद्यापनंचचतुर्दश्यांपूर्णिमायांवेत्यपरे ।