८४ लक्ष्मीपूजनोत्सव

अथाश्विनामावास्यायांप्रातरभ्यङ्गःप्रदोषेदीपदानलक्ष्मीपूजनादिविहितम्

तत्रसूर्योदयंव्याप्यास्तोत्तरंघटिकाधिकरात्रिव्यापिनिदर्शेसतिनसंदेहः

अत्रप्रातरभ्यङ्गदेवपूजादिकंकृत्वापराह्णेपार्वणश्राद्धंकृत्वाप्रदोषसमयेदीपदानोल्काप्रदर्शनलक्ष्मीपूजनानिकृत्वाभोजनंकार्यम्

अत्रदर्शेबालवृद्धादिभिन्नैर्दिवानभोक्तव्यंरात्रौभोक्तव्यमितिविशषोवाचनिकः तथाचपरदिने एवदिनद्वये

वाप्रदोषव्याप्तौपरा पूर्वत्रैवप्रदोषव्याप्तौलक्ष्मीपूजादौपूर्वा अभ्यङ्गस्नानादौ

परा एवमुभयत्रप्रदोषव्याप्त्यभावेपिपुरुषार्थचिन्तामणौतुपूर्वत्रैवव्याप्तिरितिपक्षेपरत्रयामत्रयाधिकव्यापिदर्शेदर्शापेक्षया

प्रतिपद्‌वृद्धिसत्वेलक्ष्मीपूजादिकमपिपरत्रैवेत्युक्तम्

एतन्मते उभयत्रप्रदोषाव्याप्तिपक्षेपिपरत्रदर्शस्यसार्धयामत्रयाधिकव्यापित्वात्परैवयुक्तेतिभातिचतुर्दश्यादिदिनत्रयोपिदीपावलिसंज्ञके

यत्रयत्राह्निस्वातीनक्षत्रयोगस्तस्यप्राशस्त्यातिशयः अस्यामेवनिशीथोत्तरं नगरस्त्रीभिःस्वगृहाङ्गणादलक्ष्मीनिःसारणंकार्यम्

इति श्रीमदनन्तोपाध्यायसूनुकाशीनाथोपाध्यायविरचितेधर्मसिन्धुसारेद्वितीयपरिच्छेदे आश्विनमासकृत्यनिर्णयोद्देशः समाप्तः ॥