८२ वसुबारस

आश्विनकृष्ण द्वादशीगोवत्सद्वादशीसाप्रदोषव्यापिनी ग्राह्या दिनद्वयेतदव्याप्तौपरा

सायंकालाख्यगौणकालेसत्वात् उभयत्रतद्व्याप्तौपूर्वेतिबहवः परेतिकेचित्

अत्रवत्सतुल्यवर्णांसवत्सांपयस्विनीगांसंपूज्यगोःपादेताम्रपात्रेणार्घ्यंदद्यात् तत्रमन्त्रः क्षीरोदार्णवसंभूतेसुरासुरनमस्कृते ।

सर्वदेवमयेमातर्गृहाणार्घ्यंनमोस्तुते १ ततोमाषादिवटकान्‍गोग्रासार्थदत्त्वाप्रार्थयेत् सर्वदेवमयेदेविसर्वदैवेरलकृते ।

मातर्ममाभिलषितंसफलं कुरुनन्दिनि १ तद्दिनेतैलपक्वं स्थालीपक्वं गोक्षीरंगोघृतंगोर्दधितक्रंचवर्जयेत्

नक्तंमाषान्नभोजनंभूशय्याब्रह्मचर्यंचकार्यम् इमामेवद्वादशीमारभ्यपञ्चसुदिनेषुपूर्वरात्रेनीराजनविधिर्नारदेनोक्तः

नीराजयेयुर्देवांश्चविप्रान्‌गाश्चतुरंगमान्‍ । ज्येष्ठानश्रेष्ठान् जघन्यांश्चमातृमुख्याश्चयोषितः १

इति त्रयोदश्यामपमृत्युनाशार्थंयमायनिशामुखेबहिर्दीपोदेयः इमामेवत्रयोदशिमारभ्यगात्रिरात्रव्रतमुक्तम् तत्प्रयोगः कौस्तुभे ।