७९ आग्रयणगौणप्रकारः

अथाग्रयणानुकल्पाः पृथगाग्रयण प्रयोगाशक्तौप्रकृतीष्टिसमानतन्त्राग्रयणप्रयोगः

तत्रपौर्णमासेष्ट्यासमानतन्त्रत्वे आदावाग्रयणप्रहानंपश्चात्प्राकृतप्रधानम् दर्शेष्ट्यैकतन्त्रत्वेपूर्वदर्शेष्टिप्रधानयागः

पश्चादाग्रयणप्रधानयागः अन्यत्पूर्वोत्तराङ्गजातमाग्रयणंविकृतिसंबन्ध्येवकार्यम् विरोधेवैकृतंतन्त्रमितिसिद्धान्तात्

एतदसंभवेनवश्यामाकव्रीहियवैःपुरोडाशंकृत्वादर्शपूर्णमासौकुर्यात् यद्वा नवव्रीह्यादिभिरग्निहोत्रहोमंकुर्यात्

अथवानवान्नान्यग्निहोत्र्यागवाखादयित्वातस्याः पयसाग्निहोत्रंजुहुयात् यद्वा नवान्नेनब्राह्मणान्भोजयेदितिसंक्षेपः

इदं मलमासेनकार्यम् गुर्वाद्यस्तेपिनकार्यमितिकेचित् जीर्णधान्यालाभेतुमलमासादौकार्यम् ।