७७ कोजागरव्रतः

आश्विनपौर्णमास्याकोजागरव्रतम् सापूर्वत्रैवनिशीथव्याप्तौपूर्वा उत्तरदिने

एवदिनेद्वयेऽपिवानिशीथव्याप्तौदिनद्वयेनिशीथास्पर्शेवा उत्तरैव केचित्पूर्वदिने

निशीथव्याप्तिरेवपरदिनेप्रदोशव्याप्तिरेवतदापरेत्याहुः अत्र लक्ष्मीन्द्रयोःपूजनंजागरणमक्षक्रीडाचविहिता

तत्रप्द्मासनस्थांलक्ष्मीध्यात्वाऽक्षतपुञ्जेॐलक्ष्म्यै नम इत्यावाहनादिषोडशोपचारैःसंपूज्य नमस्तेसर्वदेवानांवरदासिहरिप्रिये ।

यागतिस्तवत्प्रपन्नानांसामेभूयात्त्वदर्चनात् १ इति पुष्पांजलिदत्वानमेत् चतुर्दन्तसमारूढोवज्रपाणिः पुरन्दरः ।

शचीपतिश्चध्यातव्योनानाभरणभूषित १ इति ध्यात्वा अक्षतपुञ्जादाविन्द्रायनम इति संपूज्य विचित्रैरावतस्थायभास्वत्कुलिशपाणये ।

पौलोम्यालिङ्गिताङ्गायसहस्त्राक्षायतेनमः १ इति पुष्पाञ्जलिंदत्त्वानमेत् नारिकेलोदकंपीत्वा अक्षक्रीडांसमारभेत् ।

निशीथेवरदालक्ष्मीःकोजागर्तीतिभाषिणी १ तस्मैवित्तंप्रयच्छामि अक्षैःक्रीडां करोतियः ।

नारिकेलान्पृथुकांश्चदेवेभ्यःपितृभ्यःसमर्प्यबन्धुभिःसहस्वयंभक्षयेत् अस्यामेवा अश्वयुजीकर्माश्वलायनैःकार्यम्

तच्चपर्वद्वैधेपूर्वाह्णसंधौशेषपर्वणिप्रकृतीष्टिंकृत्वाकार्यम् अपराह्णसंधौविकृतिमिमांकृत्वाप्रकृतेरन्वाधानम् तत्प्रयोगोऽन्यत्रज्ञेयः