७५ व्रतसमाप्तिदानः

कांस्यपात्रभोजनवर्जनव्रते कांस्यपात्रं घृतपूर्णदद्यात् मधुतागे घृतपायस शर्करादानंसमाप्तौकार्यम्

तैलत्यागेतिलदानम् कार्तिकेमौनभोजीसतिलां घण्टांदद्यात्स्वर्णयुतानिमाषयुतानित्रिंशत्कूष्माण्डान्यत्रमासेदद्यात्

कार्तिकेकांस्यभोजी कृमिभुक्‌ फलवर्जनेफलंरसत्यागेरसोधान्यत्यागेधान्यानिदेयानिसर्वत्रगोदनंवा

एकतःसर्वदानानिदीपदानंतथैकतः ।

कार्तिकेदीपदानस्यकलांनार्हन्ति षोडशीम् १ एवावद्‌व्रतासंभवेचातुर्मास्यव्रतासंभवेवाकार्तिकेकिंचिद्‌व्रतमवश्यंकार्यम्

अव्रतःकार्तिकोयेषांगतोमूढधियामिह ।

तेषांपुण्यस्यलेशोऽपिनभवेत्सूकरात्मनाम् १ इत्युक्तेः

शालग्रामादिदेवताग्रेस्वस्तिकमण्डलादिकरंङ्गवल्लयादिनाकरोतिसास्वर्गादिफलंभुक्त्वासप्तजन्मसुवैधव्यंनाप्नोति

कार्तिकेपुराणेतिहासश्रवणारम्भसमाप्तीविहिते ।