७२ विजयादशमीनिर्णयः

अथविजयादशमीसापरदिने एवापराह्णव्याप्तौपरादिनद्वयेपराह्नव्याप्तौदिनद्वयेपिश्रवणयोगेसत्यसतिवापूर्वा

एवं दिनद्वयेपराह्णव्याप्त्यभावेपि श्रवणयोगसत्त्वासत्त्वयोः

पूर्वैव दिनद्वयेपराह्णव्याप्त्यव्याप्त्योरेकतरदिनेश्रवनयोगेयद्दिनेश्रवणयोगः सैवग्राह्या

एवमपराह्णैकदेशव्याप्तावूह्यम् यदापूर्वदिने एवापराह्णव्याप्तापरदिनेचश्रवणयोगाभाव्तदापिपूर्वैव

यदायुपूर्वदिने एवापराह्णव्यापिनीपरदिनेचमुहूर्तत्रयादिव्यापिनी अपराह्णत्पुर्वमेवसमाप्तापरत्रैवश्रवनयोगवतीतदापरैव

अपराह्नेदशम्यभावेऽपियांतिथिसमनुप्राप्य उदयंयातिभास्कर

इत्यादिसाकल्यवचनैः श्रवणयुक्तायाग्राह्याया ओदयिकस्वल्पदशम्याःकर्मकालेसत्वापादनात्

सिन्धौतु इदंपरदिनेपराह्णकालेश्रवणसत्वे एव श्रवणस्याप्यपराह्नात्पूर्वमेवसमाप्तौतुपूर्वैवेत्युक्तम् युक्तंचैतत् यदापरदिने

एवापराह्णव्याप्तिःपूर्वदिने एवापराह्णात्परत्रसायाह्नादौश्रवनयोगस्तदातुपरैवग्राह्येतिममप्रतिभाति

अत्रापराजितापूजनंसीमोल्लङ्घंनंशमीपूजनं देशान्तरयात्रार्थिनांप्रस्थानंचविहितम् तत्पूजाप्रकारस्तु

अपराह्णेग्रामादीशान्यांदिशिगत्वाशुचिदेशेभुवमुपलिप्यचन्दनादिनाष्टदलमालिख्यममसकुटुम्बस्यक्षेमसिद्ध्यर्थं

अपराजितापूजनंकरिष्ये इति संकल्प्य मध्ये अपराजितायैनम इत्यपराजितामावाह्यतद्दक्षिणेक्रियाशक्तैयनम इति जयां

वामतः उमायैनम इति विजयांचाबाह्य अपराजितायैनमः जयायै नमः विजयायैनमः इति नाममन्त्रैः

षोडशोपचारांपूजांकृत्वाप्रार्थयेत् इमां पूजांमयादेवियथाशक्तिनिवेदिताम् ।

रक्षार्थंतुसमादायव्रजस्वस्थानमुत्तमम् १ इति अथराज्ञःसंकल्पेयात्रायांविजयसिद्ध्यर्थमितिविशेषः

पूजानमस्कारान्ते हारेणतुविचित्रेणभास्वत्कनमेखला । अपराजिताभद्ररताकरोतुविजयंमम १

इत्यादिमन्त्रैर्विजयंप्रार्थ्यपूर्ववद्विसृजेदितिसंक्षेपः ततःसर्वेजनाः ग्रामाद्बहिरीशानदिगवस्थितांशमींगत्वापूजयेयुः

सीमोल्लङ्घनंतुशमीपूजनात्पूर्वपश्चाद्वाकार्यम् राजातु अश्वमारुह्यसपुरोहितःसामात्यः

शमीमूलंगत्वावाहनादवरुह्यस्वस्तिवाचनपूर्वकंशमीसंपूज्यकार्योद्देशानमात्यैःसहसंवदन्प्रदक्षिणांकुर्यात्

पूजाप्रकारस्तु ममदुष्कृतामङ्गलादिनिसार्थंक्षेमार्थयात्रायांविजयार्थचशमीपूजांकरिष्ये

शम्यलाभे अश्मन्तकवृक्षपूजांकरिश्ये इति संकल्पः राजातुशमी मूलेदिक्पालपूजांवास्तुदेवतापूजांचकुर्यात्

अमङ्गलानांशमनीशमनीदुष्कृतस्यच । दुःखप्रणाशिनींधन्यांप्रपद्येऽहंशमींशुभाम् १ इति पूजामन्त्रःपूजान्ते

शमीशमयतेपापंशमीलोहितकण्टका । धरित्र्यर्जुनबाणानांरामस्यप्रियवादिनी १ करिष्यमाणयात्रायांयथाकालंसुखंमया ।

तत्रनिर्विघ्नकर्त्रीत्वं भवश्रीरामपूजिते २ इति प्रार्थयेत् अश्मन्तकपूजने अश्मन्तकमहावृक्षमहादोषनिवारण ।

इष्टानां दर्शनंदेहिशत्रूणांचविनाशनम् १ इति प्रार्थयेत् राजशत्रोर्मूर्तिंकृत्वाशस्त्रेणविध्येत्

प्राकृताःशमीशाखाश्छित्त्वा आनयन्तितन्निर्मूलम् गृहीत्वासाक्षतामार्द्राशमीमूलगतांमृदम् ।

गीतवादित्रनिर्घोषैरानयेत्स्वगृहंप्रति १ ततोभूषणवस्त्रादिधारयेत्स्वजनैःसहः ।

नीराज्यमानः पुण्याभिर्युवतीभिःसुमङ्गलम् २ इति अत्रदेशान्तरं जिगमिषुभिर्विजयमुहूर्ते

चन्द्राद्यानुकूल्याभावेऽपिप्रयाणंकार्यम् तत्रविजयमुहूर्तोद्विविधः ईषत्संध्यामतिक्रम्यकिंचिदुद्भिन्नतारकः ।

विजयो नामकालोयंसर्वकार्यार्थसाधकः १ इत्येकः एकादशोमुहूर्तोपिविजयःपरिकिर्तितः ।

तस्मिन्सर्वैर्विंधातव्यायात्राविजयकांक्षिभिः १ इत्यपरः उक्तद्वयान्यतरमुहूर्तेदशमीयुक्तेप्रस्थानंकार्यंनत्वेकादशीयुक्त

आश्वयुक्‌शुक्लदशमीविजयाख्याखिलेशुभा । प्रयाणेतुविशेषणाकिंपुनःश्रवणान्विता १

इति ज्योतिर्ग्रंन्थोक्तेरन्यान्यपिकर्माणिमासविशेषनिरपेक्षाण्यत्रचन्द्राद्यानुकूल्याभावेप्यनुष्ठेयानि

मासविशेषेविहितानितुचूडाकर्मविष्ण्वादिदेवताप्रतिष्ठादीनिनकुर्यात्

राज्ञांपट्टाभिषेकनवमीविद्धादशमीश्रवणयुतापिनग्राह्याकिंत्वौदयिक्यैवग्राह्या ।