आश्विनशुक्लपक्षेमूलनक्षत्रेपुस्तकेषुसरस्वतीमावाह्यपूजयेत् मूलेषुस्थापनंदेव्याःपूर्वाषाढासुपूजनम् ।
उत्तरासुबलिंदद्याच्छ्रवणेनविसर्जयेत् १ इति वचनात् अत्रपूजयेत्प्रत्यहमितिरुद्रयामलवचनात्
मूले आवाहनंतदङ्गभूतंपूजनंचकरिष्ये इत्यादिसंकल्प्यावाहनपूजनेकार्ये
पूर्वाषाढासुपूजनंकरिष्य इति संकल्प्यावाहनरहितपूजैवकेवलम् उत्तराषाढासुबलिदानंतदङ्गभूतांपूजांचकरिष्ये इत्येवं तेकार्ये
श्रवणेविसर्जनंकर्तुतदङ्गभूतांपूजांकरिष्य इति संकल्प्यंसंपूज्यविसर्जयेदितिक्रमः
तत्रमूलस्यप्रथमेपादेसूर्यास्तात्प्राक्त्रिमुहूर्तव्यापिनि सरस्वत्यावाहनम् त्रिमुहूर्त
न्यूनत्वेरात्रौवाप्रथमपादसत्वेतस्यविशेषवचनंविनाग्राह्यत्वाभावाद्दितीयादिपादेपरदिन एवावाहनम्
एवं पूर्वाषाढादिनक्षत्रंपूजादौदिनव्याप्येवग्राह्यम् विसर्जनं तुश्रवणप्रथमपादेरात्रिभागगतेऽपिकार्यम्
विशेषवचनात् तच्चरात्रेःप्रथमप्रहरपर्यन्तमेवेतिभाति ।