६४ चण्डीपाठप्रकारः

यजमानेनवृतोहंचण्डीसप्तशतीपाठंनारायणह्रदयलक्ष्मीह्रदयपाठंवाकरिष्ये इत्यादिसंकल्प्य आसनादिविधाय

आधारे अन्यहस्तलिखितंपुस्तकंस्थापयित्वा नारायणंनमस्कृत्येतिवचनात् ॐनारायणायनमः नारायनरोत्तमायनमः

दैव्येसरस्वत्यैनमः व्यासायनमः इति नमस्कृत्यप्रणवमुच्चार्यसर्वपाठान्तेप्रणवं पठेत् पुस्तकवाचनेनियमा

हस्तेपुस्तकं नधारयेत् स्वयंब्राह्मणभिन्नेनचलिखितंविफलम् अध्यायंप्राप्यविरमेन्नतुमध्येकदाचन ।

कृतेविरामेमध्येतु अध्यायादिपठेत्पुनः १ ग्रन्थार्थंबुध्यमानः स्पष्टाक्शरं नातिशीघ्रनातिमन्दंरसभावस्वरयुतंवाचयेत्

त्रिवर्गपलकामेनचण्डीपाठः सदैव कर्तव्यः तस्मान्ममैतन्माहात्म्यंपठितव्यंसमाहितैः ।

श्रोतव्यंचसदाभक्त्येत्यादिवचनात् नैमित्तिकपाठोप्युक्तः शान्तिकर्मणिसर्वत्रतथादुःस्वप्नदर्शने ।

ग्रहपीडासुचोग्रासु माहात्म्यंशृणुयान्मम १ इत्यादि तथा अरण्यप्रान्तरेवापिदावाग्निपरिवारितः ।

द्स्युभिर्वावृतःशून्येगृहीतोवाविशत्रुभिः १ इत्यादिसंकटान्युद्दिश्य सर्वबाधासुचोग्रासुवेदनाभ्यर्दितोपिवा ।

स्मरन्ममैतन्माहात्म्यम नरोमुच्येतसंकटात् १ इत्युक्तम् उपसर्गोपशान्त्यर्थंत्रयःपाठाःकार्याः ग्रहपीडा

शान्तयेपञ्च महाभयेसप्त शान्त्यर्थंवाजपेयफलार्थंचनव राजवश्यार्थमेकादश वैरनाशार्थद्वादश

स्त्रीपुंसवश्यतार्थंचतुर्दशसौख्यालक्ष्म्यर्थंचपञ्चदश पुत्रपौत्रधनधान्यार्थषोडश राजभयनाशायसप्तदश

उच्चाटनायाष्टादश वनभयेविंशतिः दुश्चिकित्स्यरोगकुलोच्छेदायुर्नाशवैरिवृद्धिव्याधिवृद्धित्रिविधोत्पातादिमहासंकटनाशो

राज्यवृद्धिश्चशतावृत्तिभिः सहस्त्रावर्तनैःशताश्वमेधफलंसर्वमनोरथावाप्तिर्मोक्षश्चेतिवाराहीतन्त्रे उक्तम् सर्वत्रकाम्यपाठे आदौसंकल्पपूर्वकं

पूजनमन्तेबलिदानंचकार्यम् अत्राचाराद्वेदपारायणमपिकार्यम् तद्विधिर्बौधायनोक्तः कौस्तुभेज्ञेयः ।