६२ नवरात्रेघटस्थापनं

प्रातर्मध्याह्नेप्रदोषकालेचेतित्रिकालं द्विकालमेककालं वास्वस्वकुलदेवतापूजनंसप्तशत्यादिजपोऽखण्डदीपः

आचारप्राप्तमालाबन्धनं उपवासनक्तैकभ्क्तादिनियमः

सुवासिनीभोजनंकुमारीभोजनपूजनादि अन्तेसप्तशत्यादिस्तोत्रमंत्रहोमादि इत्येतानिविहितानि

एतेषांमध्येक्वचित्कुलेघटस्थापना दीनिद्वित्रादीन्येवानुष्ठीयन्तेनसर्वाणि

क्वचित्‌घटस्थापनादिरहिता इकानिचित्क्वचित्प्तर्वाण्येवेत्येतेषांसमुच्चयविकल्पौ

कुलाचारानुसारेणव्यवस्थितौज्ञेयौकुलपरंपराप्राप्तादधिकंशक्तिसत्वेपिनानुष्टेयमितिशिष्टाचारः

फलकामनया प्रार्थितमुपवासादिकंकुलाचाराभावेपिकुर्वन्ति इदंकलशस्थापनंरात्रौनकार्यम्‍

तत्रकलशस्थापनार्थंशुद्धमृदावेदिकांकृत्वापञ्चपल्लवदूर्वापलताम्बूलकुङ्‌कुमधूपादिसंभारान्संपादयेत् ।