५९ आश्विनमासः

तुलामेषसंक्रांतिर्विषुवसंज्ञा तस्याःपूर्वाःपराश्चपञ्चदशपञ्चदशनाड्यः पुण्यकाल विशेषःप्रगुक्त एव

आश्विनशुक्लप्रतिपदिदेवीनवरात्रारम्भः नवरात्रशब्दः आश्विनशुक्लप्रतिपदमारभ्यमहानवमीपर्यन्तंक्रियमाणकर्मनामधेयम्

तत्रकर्मणिपूजैवप्रधानं उपवासादिकंस्तोत्रजपादिकंचांगम् तथा

चयथाकुलाचारमुपवासैकभक्तनक्तायाचितान्यतमव्रतयुक्तंयथाकुलाचारंसप्तशती

लक्ष्मीह्रदयादिस्तोत्रजपसहितंप्रतिपदादिनवम्यन्तनवतिथ्यधिकरणपूजाख्यंकर्मनवरात्रशब्दवाच्यम्

पूजाप्राधान्योरेक्तेरेवक्वचित्कुलेजपोपवासादिनियमस्यव्यतिरेक उपलभ्यते

पूजायास्तुनक्वापिकुलेनवरात्रकर्मण्यभावोदृश्यतेयत्कुलेनवरात्रमेवनानुष्ठीयतेतत्रनवरात्रपूजादेरप्यभाव आस्तांनामसचनवरात्रारम्भः

सूर्योदयोत्तरंत्रिमुहूर्तव्यापिन्यांप्रतिपदिकार्यः तदभावेद्विमुहूर्तव्यापिन्यामपि

क्वचिन्मुहूर्तमात्रव्यापिन्यामप्युक्तःसर्वथादर्शयुक्तप्रतिपिदनकार्य

इति बहुग्रन्थसंमत्तम मुहूर्तन्यूनव्याप्तौसूर्योदयास्पर्शेवादर्शयुतापिग्राह्या

प्रथमदिनेषष्टिघतिकाप्रतिपद्द्वीतीयदिनेमुहूर्तद्वयादिपरिमितावर्धते तदापूर्णत्वात्पूर्वैवग्राह्या

द्वितीया वेधनिषेधोपि एतत्पक्षद्वये एवयोज्यः

पुरुषार्थचिन्तामणौतुपूर्वदिनेमुहूर्तचतुष्टयोत्तरंमुहूर्तपञ्चकोत्तरंवाप्रवृत्तद्वितीयादिनेमुहूर्तद्वयादिपरिमिताप्रतिपत्

तदापरस्याःक्षयगामितयानिषिद्धत्वादमायुक्तापिपूर्वैवग्राह्येत्युक्तम्

तत्रसूर्योदयोत्तरंदशघटीमध्येतत्रासंभवेमध्याह्नेऽभिजिन्मुहूर्तेप्रारम्भःकार्योनत्वपराह्णे

एवं च प्रतिपद आद्यषोडशनाडीनिषेधश्चित्रावैधृतियोगनिषेधश्चोक्तकालानुरोधेनसतिसंभवे

पालनीयोनतुनिषेधानुरोधेनपूर्वाह्णःप्रारम्भकालःप्रतिपत्तिथिर्वातिक्रमणीयाः ।