५० महालयविधिः

पक्षश्राद्धेपित्रादिपार्वणत्रयपत्न्याद्येकोद्दिष्टपितृगणसहितसर्वपित्रुद्देशेनसपत्नीकपित्रादित्रयसपत्नीकमातामहदित्रयेतिषड्‌दैवतमात्रोद्देशेनवा

षड्‌दैवतैकोद्दिष्टगणोद्देशेनवाप्रत्यहंमहालय इति पक्षत्रयम् एवं पञ्चम्यादिपक्षेष्वपि सकृन्महालयेतुसर्वपित्रुद्देशेनैव तत्रदेवतासंकल्पः

पितृपितामहप्रपितामहप्रपितामहानामातृतत्सपत्नीपितामहीतत्सपत्नीप्रपितामहीतत्सपत्नीनां यद्वा ऽस्मत्सापत्नमातुरितिपृथगुद्देशः

मातामहमातृपितामहमातृप्रपितामहानांसपत्नीकानांयथनामगोत्राणांवस्वादिरूपाणांपार्वणविधिनापत्न्याः

पुत्रस्यकन्यकायाः पितृव्यस्य मातुलस्यभ्रातुः

पितृष्वसुर्मातृष्वसुरात्मभगिन्याःपितृव्यपुत्रस्यजामातुर्भागिनेयस्यश्वशुरस्यश्वशर्‍वावा

आचार्यस्योपाध्यायस्यगुरोःसख्युःशिष्यस्य एतेषांयथानामगोत्ररूपाणां

पुरुषविषयेसपत्नीकानांस्त्रीविषयेसभर्तृकसापत्यानामेकोद्दिष्ट्विधिनामहालयापरपक्षश्राद्धमथवासकृन्मह अलयापरपक्षश्राद्धंसदैवं सद्यःकरिष्य इति

एतेषांमध्येयेकिचिज्जीवन्तितान्विहाय इतरेषामुद्देशः मातामहादिषुपत्न्याजीवने सपत्नीकेत्यस्यस्त्रीषुचभर्त्रादेरनुच्चारः

महालयेगयाश्राद्धेवृद्धौचान्वष्टकासुच । नवदिवतमत्रेष्टंशेषंषाट्‌पौरुषंविदुः १ अन्वष्टकासुवृद्धौचप्रतिसंवत्सरेतथा ।

महालयेगयायाम्चसपिण्डीकरणात्पुरा २ मातुःश्राद्धंपृथक्कार्यम न्यत्रपतिनासह ।

इत्यदिस्मृत्यनुसारात्पार्वणत्रयमेवोक्तम् केचित्तुमातामह्यादित्रयंपृथगुच्चार्य द्वादशदेवताकंपार्वणचतुश्ट्यमाहुः

एता एवदेवतागयायांतीर्थश्राद्धेनित्यतर्पणे च ज्ञेयाः महालयेधूरिलोचनसंज्ञकाविश्वेदेवाः

अत्रसतिसंभवेदेवार्थद्वौविप्रौपार्वणत्रयार्थं प्रतिपार्वणंत्रीनित्येवं नवपत्न्याद्येकोद्दिष्टगणे प्रतिदैवतमेकैकमेवं विप्रान्निमन्त्रयेत्

अशक्तौदेवार्थमेकंप्रतिपार्वणमेकमितिपार्वणत्रयेत्रीन्सर्वैकोद्दिष्टगणार्थमेकमितिनिमन्त्रयेत्

देवार्थविप्रद्वयपक्षेप्रतिपार्वणेत्रय एवकार्याः नतुदेवार्थद्वौप्रतिपार्वणमेक इति वाप्रतिपार्वणंत्रीन्देवार्थमेक इति वावैषम्यंकार्यम्

एवं सर्वत्र अमावास्यादिश्राद्धेष्वपिज्ञेयम् अत्यशक्तोपार्वणद्वयार्थमेकोपिकार्यः महालये अन्तेमहाविष्ण्वर्थविप्रोवश्यंनिमन्त्रयितव्य इति विशेषः

कौस्तुभे जीवन्मातृकःसापत्नमातुरेकोद्दिष्टंकुर्यान्नपार्वणम् अनेकाःसापत्नमातरोयस्यतेन्सर्वमात्रुद्देशेनैक एवविप्रःपिण्डश्चकार्योर्घ्यपात्रंपृथक्‍

स्वजनन्यासहानेकमातृत्वेस्वजनन्यासहसर्वमात्रर्थमेकोविप्रः

पिन्डोर्घ्यश्चेतिपार्वणमेवनपृथक्‌सापत६नमात्रैकोद्दिष्टमितिवासर्वसापत्नमातृणांपृथगेवैकोद्दिष्टमितिवापक्षःमहालये

पार्वणार्थे अग्नौकरणमेकोद्दिष्टगणार्थंत्वग्नौकरणंकृताकृतम्करणपक्षे एकोद्दिष्टगणार्थमग्नौकरणान्नंपृथक्‌पात्रेग्राह्यम्

महालयेसर्वपार्वणार्थमेकोद्दिष्टार्थंचसकृदाच्छिन्नंबर्हिरेकमेव

दर्शादौतुप्रतिपार्वणंबर्हिर्भिन्नमेव अवशिष्टःश्राद्धप्रयोगोनेकमातृत्वेभ्यञ्जनादिमन्त्रोहश्चश्राद्धसागेरस्वस्वशाखोक्तप्रयोगग्रन्थेषुचज्ञेयः

सकृन्महालयेश्राद्धाङ्गतिलतर्पणंपरेहन्येवसर्वपित्रुद्देशेनप्रातःसंध्यायाः पूर्वमेवप्रातःसंध्योत्तरंवाब्रह्मयज्ञाङ्गतर्पणाद्भिन्नमेवकार्यम्

पत्न्यांरजस्वलायांसकृन्महालयोनकार्यः कालान्तराणांसत्वात् अमायांरजोदोषे आश्विनशुक्लपञ्चमीपर्यन्तंगौणकालेमहालयाः

प्रतिपदादिष्वन्येषुपक्षेषुप्रारंभदिनेपाकात्पुर्वपत्नीरजस्वलाचेदुत्तरोत्तरपक्षस्वीकारःपाकारम्भोत्तरंचैतागृहान्तरेऽपरुध्यमहालयःकर्तव्यः

एवं विधवाकर्तृकश्राद्धेपिज्ञेयम् अत्रापुत्राविधवा ममभर्तृतत्पितृपितामहानांभर्तुर्मातृपितामहीप्रपितामहीनांममपितृपितामहप्रपितामहानां

मममातृपितामहीप्रपितामहीनांमममातामहमातृपितामहमातृप्रपितामहानांमममातामहीमातृपितामहीमातृप्रपितामहीनांतृप्त्यर्थंसकृन्महालयपरपक्षश्राद्धंकरिष्य

इति स्वयंसंकल्प्य ब्राह्मणद्वारा अग्नौकरणादिसहितं सर्वमंविकृतंप्रयोगंकारयेत्

ब्राह्मणस्त्वमुक्रनाम्न्यायजमानायाभर्तृतत्पितृपितामहेत्याद्युच्चार्यप्रयोगं कुर्यात्

अशक्तौभर्त्रादित्रयंस्वपित्रादित्रयंस्वमात्रादित्रयंस्वमातामहादित्रयंसपत्नीकमितिपार्वणचतुष्ट्योद्देशेनमहालयः

अत्यशक्तौस्वभर्त्रादित्रय्म्स्वपित्रादित्रयंचेतिपार्वणद्वयमेवकार्यम् ।