४५ पारणा

अथपारणा उभयान्तेपारणंमुख्यःपक्शः अन्यतरान्तेगौणःपक्षः तत्रविष्णुशृङ्खलाभावेत्रयोदश्यामुभयान्तेपारणम्

विष्णुशृङ्खलयोगेतुपूर्वदिनेतन्त्रेणकृतोपवासद्वस्य परदिनेश्रवनर्क्षातद्वादश्याधिक्येश्रवणमतिक्रम्यद्वा दश्यांपारणम्

यदिचद्वादश्यपेक्शयाश्रवणाधिक्यंपारणादिनेभवतितदा एकादशीव्रतपारणायांद्वादश्युल्लंघनेदोषोक्तेर्द्वादश्यामेवपारणं

नत्वन्यतरान्तापेक्षा तत्र सतिसंभवेश्रवणमध्यभांगविंशत्यादिघटिकात्मकंत्यक्त्वापारणम् यथैकादशी

३० उत्तराषाढा २९ द्वादशी २५ श्रवणं २९

अत्रपूर्वेद्युस्तन्त्रेणोपवासद्वयंकृत्वापरेह्निश्रवणमध्यभागमवशिष्टंनवघटिकात्मकंत्यक्त्वाद्वादश्यांचरमे

विंशतिघटिकारूपे श्रवणभागेपारणम् एवमुक्तोदाहरणे एव एकादश्याःदशनाडिकात्वे द्वादश्याः अष्टनाडिकात्वे

द्वादशीश्रवणयोःपञ्चदशचत्वारिंशन्नाडीत्वे वाश्रवणमध्यभागत्यागेद्वादश्युल्लंघनापत्तौसंगवकालंत्यक्त्वामुहूर्तत्रयपर्यन्तं

सप्तमुहूर्तादौवा ऋक्षमध्यभागे एवभोक्तव्यम् अयंमध्यभागत्यागोभाद्रगतश्रवणद्वादशीव्रत एव

नतु माघफाल्गुनमासकृष्णपक्षगतश्रवणद्वादशीव्रतपारणायाम् , मासान्तरगतश्रवणभागेविष्णुपरिवर्तनाभावात्

येतुभाद्रेश्रवणमध्यवर्जनमात्रेननिषेधचारितार्थ्यंमन्यमानाविष्णुशृङ्खलयोगाभावेपिश्रवण

मध्यमात्रंत्यक्त्वाभुञ्जन्तेतेनित्यश्रवणद्वादशीव्रतमाहात्म्यानभिज्ञाभ्रान्ता एव अयंसर्वोपि

निर्णयोमासन्तरगतश्रवणद्वादशीव्रतेप्यूह्यः श्रवणद्वादशीव्रतेनदीसंगमेस्नात्वा

कलशेस्वर्णमयंजनार्दननामानंविष्णुंसंपूज्य वस्त्रयज्ञोपवीतोपानच्चत्रादिसमर्प्योपोष्य पारणादिनेदध्योदनयुतं

वस्त्रवेष्टितंजलपूर्णघटंछत्रादियुतांपूजितांसपरिवारांतांप्रतिमांचद्‌द्यात् तत्रमन्त्रः नमोनमस्तेगोविन्दबुधश्रवणसंज्ञक ।

अघौघसंक्षयंकृत्वासर्वसौख्यप्रदोभव १ इति ।